Enter your Email Address to subscribe to our newsletters

प्रयागराजः, ०२ जनवरीमासः (हि.स.)। नवम्बर–मासे २०२४ तमे वर्षे मोतीलाल–नेहरू–चिकित्सालय–महाविद्यालयस्य भूतपूर्वा प्रधानाचार्या प्रो.वत्सला–मिश्रा तथा मानसिक–रोग–विभागाध्यक्षः प्रो. वी.के.सिंहः इत्येतयोः नेतृत्वेन एक: अपूर्व: मानवीय–प्रयत्न: आरब्ध:। अस्य प्रयत्नस्य अन्तर्गतं श्रद्धा–रीहेबिटेशन–फाउण्डेशन (एस.आर.एफ.) इत्यस्य सहयोगेन मानसिक–रोग–विभागेन गृहविहीन–मानसिक–रोगिणाम् उपचार–पुनर्वास–प्रक्रिया प्रारब्धा।शुक्रवासरे डा.वी.के.सिंहः अवदत् यत् एषा संस्था डा.भारत–वातवानी इत्यनेन सञ्चालिता अस्ति। सा मुम्बई–नगरे पञ्जीकृता एका अशासकीय–संस्था अस्ति। डा.भारत–वातवानी मुम्बई–नगरे विख्यातः मानसिक–रोग–चिकित्सक: अस्ति, येन वर्षे २०१८ तमे सहस्रशः गृहविहीन–मानसिक–रोगिणां पुनर्वास–कार्येभ्यः रेमन–मैग्सेसे–पुरस्कारः प्राप्तः। अद्यावधि श्रद्धा–रीहेबिटेशन–फाउण्डेशनद्वारा भारतस्य समीपवर्तिनां राष्ट्राणां च अन्तर्गतं प्रायः द्वादश–सहस्रं (१२,०००) गृहविहीन–मानसिक–रोगिणः स्व–परिवारैः सह पुनर्वासिताः सन्ति।अस्य उपक्रमस्य अन्तर्गतं एस.आर.एफ.–दलं स्थानीय–आरक्षी–प्रशासनस्य सहयोगेन गृहविहीन–मानसिक–रोगिणः एम.एल.एन.चिकित्सा–महाविद्यालयस्य मानसिक–रोग–विभागे आनयति। तत्र प्रो. डा.वी.के.सिंह:, डा.अभिषेक–प्रताप–सिंह: तथा डा.शैलेन्द्र–मिश्र: इत्येषां मार्गदर्शने डा.उत्कर्ष–टण्डन: तथा अन्यैः चिकित्सकैः रोगिणां परीक्षणम् उपचारश्च क्रियते। तेन सह एस.आर.एफ.–दलस्य सामाजिक–कार्यकर्तारौ डा.उदय–बी.सिंहः तथा मो.सैफ: रोगिणां परिवार–अन्वेषणस्य प्रयासं कुर्वन्ति। यदा रोगिणां स्थितौ सुधारः दृश्यते, तदा ते स्व–परिवारैः सह पुनर्वासिताः क्रियन्ते।डा.सिंहः अवदत् यत् यदि किञ्चित् कारणवशात् रोगिणां परिवारस्य अन्वेषणं न सम्भवति अथवा परिवारः स्वीकर्तुं न इच्छति, तर्हि तादृशी-अवस्थायां रोगी पञ्जीकृत–अशासकीय–संस्थाभिः सञ्चालितेषु मानसिक–रोगिणाम् आश्रय–गृहेषु स्थानान्तरणं क्रियते। अद्यावधि दश (१०) गृहविहीन–मानसिक–रोगिणः सफलतया उपचारं प्राप्य स्व–परिवारैः सह मिलिताः सन्ति। एते रोगिणः मऊ, जौनपुर, प्रयागराज (२), गौतमबुद्धनगर, चित्रकूट (उत्तरप्रदेशः), कैमूर, गया (२) (बिहारः), कवर्धा (छत्तीसगढ़ः) इत्यादि जनपदेभ्यः सम्बद्धाः सन्ति। एकस्य रोगिणः परिवार–स्थानं न ज्ञातम्; सः वर्तमानकाले आश्रय–गृहे उपचाराधीनः अस्ति, तस्य परिवार–अन्वेषणस्य प्रयासः निरन्तरं क्रियते।अपर–आरक्षी–महानिदेशकः (प्रयागराज–मण्डलम्) डा.संजीव–गुप्तः अपि अस्य कार्यक्रमस्य सञ्चालनाय आवश्यकाः निर्देशान् दत्तवान्। अस्य उपक्रमस्य सफलतायै चिकित्सा–महाविद्यालयस्य प्रधानाचार्यः प्रो. वी.के.पाण्डेयः, एस.आर.एन.चिकित्सालयस्य प्रमुखा अधीक्षिका प्रो.नीलम–सिंह:, तथा आरक्षी–प्रशासनं पूर्णं सहयोगं प्रददाति।अन्ते अवदत् यत् यदि कस्यचित् गृहविहीन–मानसिक–रोगिणः विषये सूचना प्राप्यते, तर्हि सा डा.उदय–बी.सिंहः इत्यस्मै तस्य चल–दूरवाणी–अङ्के ६३५५४४६०७७ इति प्रदातुं शक्यते।
हिन्दुस्थान समाचार / अंशु गुप्ता