Enter your Email Address to subscribe to our newsletters

हरिद्वारम्, ०२ जनवरीमासः (हि.स.)।देवभूमौ हरिद्वारे वैरागी–शिबिरे भारतीय–संस्कृतेः ऋषि–परम्परायाश्च एकस्य स्वर्णिम–अध्यायस्य शुभारम्भः अभवत्। अखिल–विश्व–गायत्री–परिवारस्य तत्वावधाने माता भगवती–देव्याः अखण्ड–दीपकस्य च शताब्दी–वर्षस्य अवसरमनुसृत्य ऋषि–क्षेत्रस्य भव्यम् अनावरणं कृतम्। अयम् ऐतिहासिकः कार्यक्रमः न केवलं देवभूमिम् आध्यात्मिक–ऊर्जया आप्लावयति, अपि तु आधुनिक–युगे प्राचीन–ऋषि–ज्ञानस्य प्रासङ्गिकतामपि सशक्ततया रेखाङ्कयति।अनावरण–समारोहं सम्बोधयन् भूतपूर्वः केन्द्रीय–रक्षा–राज्यमन्त्री, सांसदश्च अजय–भट्टः अवदत् यत् गुरुदेवेन कठोर–साधनया तपश्चर्यया च यत् बीजं रोपितम्, तत् अद्य विराट–वटवृक्षरूपेण विकसितम् अस्ति। स्व–जीवनं तप्त्वा मानवतायै यः सन्देशः प्रदत्तः, सः अमरः अस्ति तथा विश्वस्य सर्वेषु दिग्भागेषु अखण्ड–दीपवत् प्रकाशं प्रसारयिष्यति। सः अपि अवदत् यत् गायत्री–परिवारस्य प्रत्येकं परिजनः कठिन–परिस्थितिषु अपि स्मित–मुखेन निरन्तरं सेवायां संलग्नः दृश्यते, यत् तेषां अन्तःस्थितस्य कर्मयोगस्य प्रमाणम् अस्ति।मुख्य–सचिवः आनन्द–वर्धनः अवदत् यत् आध्यात्मिकताजीवनं सन्तुलितं कर्तुम् उत्तम: विधिः अस्ति, सा एव जीवनस्य सम्यक्–दिशां दर्शयति। सा एव विद्या सार्थका या चरित्र–निर्माणं लोक–कल्याण–भावनां च विकासयति। अस्माकम् ऋषयः समाजस्य मध्ये स्थित्वा जीवनोन्नयनस्य शिक्षां प्रदत्तवन्तः। गायत्री–परिवारस्य अधिष्ठाता आचार्यश्रीः धर्मं चरित्रेण कर्तव्येन च संयोज्य प्रस्तुतवान्। सः अवदत्— “युगं न परिवर्तते, युगः परिवर्त्यते।”अखिल–विश्व–गायत्री–परिवारस्य डा.चिन्मय–पण्ड्या अवदत् यत् युग-ऋषिणा गुरुदेवेन सर्वे जनाः एकभाव–धारया सूत्रबद्धाः कृताः। अद्यतनः कालः आध्यात्मिक–सामाजिक–दृष्ट्या अत्यन्तं मूल्यवान् अस्ति। माता भगवती–देव्याः सन्देशं स्मारयन् सः अवदत् यत् भारतं सर्वसमर्थं कर्तुं भारतीय–संस्कृतेः सुदृढीकरणमनिवार्यम्। प्राचीन–ऋषि–परम्परायाः पुनरुत्थानस्य आवश्यकतां तेन विशेषतया प्रतिपादितम्।विश्व–हिन्दू–परिषदः महासचिवः मिलिन्द–पराण्डे अवदत् यत् गायत्री–परिवारः सर्वान् जाति–धर्म–भेदान् अतिक्रम्य एकस्मिन् सूत्रे संयोजयितुं भगीरथ–प्रयासं कृतवान्। अस्मात्पूर्वं महापौरः श्रीमती किरण–जैसल-इत्यनया सहितम् अन्ये अतिथयः अपि स्व–विचारान् व्यक्तवन्तः। सर्वैः वक्तृभिः साधना–सेवा–संस्कार–राष्ट्र–निर्माण–क्षेत्रेषु गायत्री–परिवारेण क्रियमाणं कार्यं प्रेरणास्पदम् इति निर्दिष्टम्।अस्मिन् अवसरे मञ्चासीनैः अतिथिभिः सह नितिन–गौतमः, तरुण–वशिष्ठः इत्यादयः देव–संस्कृति–विश्वविद्यालयस्य प्रतीक–चिह्नैः, युग–साहित्यैः, गङ्गाजलेन, गायत्री–महामन्त्र–अङ्कित–उपवस्त्रैश्च सम्मानिताः। कार्यक्रमे जिलाधिकारी मयूर–दीक्षितः, अनेके प्रशासनिक–अधिकारिणः, नागरिकाः, शान्तिकुञ्ज–व्यवस्थापकः योगेन्द्र–गिरिः तथा देशस्य विविध–भागेभ्यः आगताः सहस्रशः स्वयंसेवकाः उपस्थिताः आसन्।
हिन्दुस्थान समाचार / अंशु गुप्ता