नबीनस्य कार्यकालपक्षाय नूतनतया गतिं प्रदाय राष्ट्रसेवायाः संकल्पम् अधिकं दृढं करिष्यति : मुख्यमंत्री सायः
-भाजपायाः नवनिर्वाचिताय राष्ट्रियाय अध्यक्षाय नितिन नबीनाय मुख्यमंत्री सायः वर्धापनानि दत्तवान्। रायपुरम् 20 जनवरीमासः (हि.स.)। भारतीयजनतापक्षस्य राष्ट्रियाध्यक्षपदे मङ्गलवासरे सर्वसम्मत्या निर्वाचिते नबीनि, छत्तीसगढप्रदेशस्य मुख्यमंत्री विष्
नितिन नबीन  और मुख्यमंत्री  विष्णुदेव साय फाइल फाेटाे


-भाजपायाः नवनिर्वाचिताय राष्ट्रियाय अध्यक्षाय नितिन नबीनाय मुख्यमंत्री सायः वर्धापनानि दत्तवान्।

रायपुरम् 20 जनवरीमासः (हि.स.)।

भारतीयजनतापक्षस्य राष्ट्रियाध्यक्षपदे मङ्गलवासरे सर्वसम्मत्या निर्वाचिते नबीनि, छत्तीसगढप्रदेशस्य मुख्यमंत्री विष्णुदेवसायः अभिनन्दनं कृत्वा दृढं विश्वासं प्रकटितवान् यत् प्रधानमन्त्री नरेन्द्रमोदिनः कुशलमार्गदर्शने नबीनस्य अयं कार्यकालः पक्षाय नूतनां गतिं दत्त्वा राष्ट्रसेवायाः संकल्पं अधिकं सुदृढं करिष्यति।

प्रदेशस्य मुख्यमंत्री सायः नबीनस्य कार्यकालं सफलं प्रेरणाप्रदं स्मरणीयं च भवतु इति मङ्गलकामनां कृत्वा अवदत् यत् नबीनस्य संगठनात्मकः अनुभवः कार्यकुशलता समर्पणभावश्च पक्षं राष्ट्रियस्तरे अधिकं सशक्तं करिष्यति।

नबीनस्य नेतृत्वे भारतीयजनतापक्षः संगठनात्मकदृष्ट्या नूतनाः उच्चताः प्राप्स्यति तथा तस्य मार्गदर्शनं पक्षसंगठनस्य कार्यकर्तॄणां च कृते प्रेरणास्रोतः सिद्धं भविष्यति।

श्रीसायः अवदत् यत् नबीनस्य निर्वाचनं राष्ट्रियस्तरे संगठनस्य युवनेतृत्वे विश्वासस्य प्रतीकः अस्ति। तस्य प्रशासनिकाः संगठनात्मकाश्च क्षमताः तस्य भूमिस्थस्तरे कार्यकर्तॄभिः सह संवेदनात्मकसम्बन्धस्य प्रमाणं ददाति।

हिन्दुस्थान समाचार