Enter your Email Address to subscribe to our newsletters

शिमला, 20 जनवरीमासः (हि.स.)।
उपमुख्यमन्त्री मुकेश अग्निहोत्री अवदत् यत् पर्यटनस्य प्रोत्साहनाय धर्मशालानगरे नड्डीक्षेत्रे एशियादेशस्य सर्वाधिकविस्तीर्णा जिपलाइन परियोजना निर्मीयते। एषा परियोजना प्रायः ४.२ किलोमीटरपरिमिता भविष्यति तथा पूर्णतया हरितपरियोजनारूपेण विकसितीक्रियते। तेन स्पष्टतया उक्तं यत् अस्यां परियोजनायां कस्यापि वृक्षस्य छेदनं न करिष्यते। सरकारस्य उद्देश्यं विकासेन सह पर्यावरणसंरक्षणाय अपि प्राथमिकता दातुम् अस्ति।
एतां सूचनां सः मङ्गलवासरे शिमलानगरे आयोजितायां राज्यपरिवहनविकाससडकसुरक्षापरिषदः पञ्चमीबैठकस्य अध्यक्षतां कुर्वन् दत्तवान्।
उपमुख्यमन्त्री अवदत् यत् कांग्रेससरकारस्य कार्यकाले राज्यस्य परिवहनविभागेन अद्यावधि सर्वश्रेष्ठं प्रदर्शनं कृतम् अस्ति। विभागस्य राजस्वे पूर्वसरकारस्य तुलनायां सप्तत्रिंशत्प्रतिशतपरिमिता वृद्धि अभवत्।
सः अवदत् यत् वर्तमानसरकारस्य कार्यकाले परिवहनविभागेन अद्यावधि प्रायः २६०० कोटिरूप्यकाणां राजस्वं अर्जितम् अस्ति यदा तु पूर्वसरकारस्य काले एषः आँकडः प्रायः १५०० कोटिरूप्यकाणि एव आसीत्। विभागे पारदर्शितावर्धनाय सामान्यजनानां सुविधायै च सेवाः शीघ्रं डिजिटलीकृताः क्रियमाणाः सन्ति। आगामिकाले मालवाहनपरवाना चालकअनुज्ञापत्रं तथा अन्याः बहवः सेवाः पूर्णतया ऑनलाइनरूपेण उपलब्धाः भविष्यन्ति येन जनाः आरटीओ कार्यालयानां अन्यकार्यालयानां च परिभ्रमणात् मुक्ताः भविष्यन्ति। चलितफिटनेससुविधाया माध्यमेन वाहनानां फिटनेसपरीक्षा अनुमोदनं च अपि ऑनलाइनरूपेण क्रियते।
शिमलारोपवे परियोजनां विषये उपमुख्यमन्त्री अवदत् यत् एषा योजना स्वनिश्चितसमयसीमात् चतुर्भ्यः पञ्चवर्षेभ्यः विलम्बिता वर्तते। व्ययवृद्धेः कारणात् एषा परियोजना अभिप्रायार्थं केन्द्रीयसरकारस्य समीपं प्रेषिता अस्ति यतः कुलव्ययस्य प्रायः अशीतिप्रतिशतभागः केन्द्रीयसरकारेण वहनीयः अस्ति। सरकारः अस्यां परियोजनायां सर्वेषु पक्षेषु गम्भीरतया विचारं करोति इति तेन उक्तम्।
उपमुख्यमन्त्री अवदत् यत् प्रदेशे स्वचालितपरीक्षणकेन्द्राणि स्थाप्यन्ते येन वाहनानां परीक्षणं आधुनिकतया पारदर्शितया च सम्भवति। निजीक्षेत्रे कांगडा सिरमौर मण्डी इत्येषु स्थानेषु एटीएस निर्मीयन्ते यदा तु हरौली नादौन इत्यत्र सरकारी एटीएस स्थाप्यन्ते।
सः अपि अवदत् यत् राज्ये स्क्रैपिंगनीतिः शीघ्रं कार्यान्विता क्रियते। सोलननगरे हमीरपुरे च द्वौ स्क्रैपिंगकेन्द्रौ स्थाप्यौ स्तः तथा अद्यावधि १६९२ पुरातनवाहनानि स्क्रैप् कृतानि सन्ति। एतेन प्रदूषणन्यूनता भविष्यति मार्गेषु सुरक्षितवाहनचालनं च सुलभं भविष्यति।
ईवाहनानां प्रोत्साहनाय सरकारः राजीवगान्धी ईटैक्सीयोजनायाः अन्तर्गतं पञ्चाशत्प्रतिशतपरिमितां अनुदानराशिं ददाति। पुरातनटैक्सीनां ईटैक्सीरूपान्तरे चत्वारिंशत्प्रतिशतपरिमिता अनुदानराशिः प्रदीयते। प्रथमचरणे सहस्रं पुरातनटैक्सीनां ईटैक्सीरूपेण परिवर्तनं लक्ष्यीकृतम् अस्ति। अपरं च ३९० ईबसयानानां क्रये त्रिंशत्प्रतिशतपरिमिता अनुदानराशिः प्रदीयते। ईटैक्सीयोजनायै आवेदनानि १५ जनवरीतः ४ फरवरीपर्यन्तं ईबसयोजनायै च ८ फरवरीपर्यन्तं स्वीकरिष्यन्ते।
उपमुख्यमन्त्री अवदत् यत् मार्गसुरक्षां दृष्ट्वा ईचालानप्रणाली अधिकं प्रभाविनी क्रियमाणाः अस्ति। प्रदेशे प्रायः ६०० ब्लैकस्पॉटस्थानानि चिन्हितानि सन्ति येषां सुरक्षाकरणस्य कार्यं प्रचलति। अद्य केवलं चतुर्प्रतिशतक्षेत्रेषु क्रैशबैरियर् स्थापिताः सन्ति शेषेषु स्थानेषु शीघ्रं कार्यं करिष्यते। एतेन सह प्रदेशे १२९ स्थानेषु विद्युत्चार्जिंगकेन्द्राणां स्थापनायै भूमिः चिन्हिता अस्ति।
---------------
हिन्दुस्थान समाचार