Enter your Email Address to subscribe to our newsletters

रायपुरम्, 20 जनवरीमासः (हि.स.)
मुख्यमन्त्रिणः विष्णुदेवसायस्य अध्यक्षतायां राज्यस्य मन्त्रिपरिषदः महत्वपूर्णोपवेशनं बुधवासरे भविष्यति। आधिकारिकसूचनानुसारम् अस्मिन् मन्त्रिपरिषदुपवेशने अनेकान् महत्त्वपूर्णान् नीतिगतान् प्रशासनिकान् च प्रस्तावान् विषये चर्चा कृत्वा निर्णयाः गृहीष्यन्ते।
सूच्यते यत् रायपुरनगरस्य पुलिस कमिश्नरी प्रणाल्याः अधिकारक्षेत्रस्य तथा प्रशासनिकसीमानां निर्धारणस्य विषये अस्यां गोष्ठ्याम् अनुमोदनं दातुं शक्यते। तथैव गणतन्त्रदिवसस्य अवसरे राज्यपालमहाभागेन प्रदेयस्य अभिभाषणस्य प्रारूपम् अपि अस्यां गोष्ठ्यां स्वीकृतं कर्तुं शक्यते। मन्त्रिपरिषदस्य अनुमोदनानन्तरं तदभिभाषणं अन्तिमरूपेण निश्चितं करिष्यते।
एतदतिरिक्तं धान्यक्रयस्य, धान्यस्य उठावस्य तथा तत्र उत्पन्नानां अनियमिततानां विषये प्राप्तानां शिकायतानां अपि विस्तृतचर्चा अस्यां मन्त्रिपरिषदुपवेशनं भविष्यति।
हिन्दुस्थान समाचार