Enter your Email Address to subscribe to our newsletters

पटना, 20 जनवरीमासः (हि.स.)।
बिहारराज्यस्य विकासं नूतनगत्यै अग्रे नेतुं दृढसंकल्पेन मुख्यमन्त्री नीतिशकुमारः “समृद्धि यात्रा” कार्यक्रमस्य अन्तर्गतं अद्य मङ्गलवासरे गोपालगञ्जजिलायाः भ्रमणं करिष्यति। अस्मिन् अवसरे मुख्यमन्त्री जनपदे कुलं 369.04 कोटिरूप्यकव्ययेन सम्बन्धितानां 35 विकासयोजनानां उद्घाटनं तथा शिलान्यासं च करिष्यति।
एताभिः योजनाभिः मार्गाणां, सेतूनां, लघुसेतूनां, तटबन्धानां, शिक्षाक्षेत्रस्य, स्वास्थ्यसेवानां, पेयजलव्यवस्थायाः, कृषेः तथा ग्रामीणमूलभूतसंरचनायाः दृढीकरणं भविष्यति, येन जनपदस्य समग्रविकासाय नूतना दिशा प्राप्यते इति आशा विद्यते। समृद्धि यात्रायाः प्रथमचरणे मुख्यमन्त्री गोपालगञ्जं प्राप्त्वा विभिन्नविकासकार्याणां निरीक्षणं करिष्यति। कार्यक्रमानुसारं सः चयनितपरियोजनानां उद्घाटनं कृत्वा सम्बन्धितविभागीयाधिकरिभिः सह योजनानां प्रगतिसमीक्षां करिष्यति।
मुख्यमन्त्रिणः नीतिशकुमारस्य प्रस्तावितागमनं दृष्ट्वा बरौली तथा बतरदे क्षेत्रयोः सुदृढाः विस्तीर्णाश्च सुरक्षाव्यवस्थाः कृताः सन्ति। प्रशासनद्वारा मुख्यमन्त्रिणः कार्यक्रमस्थलेषु तथा तस्य आवागमनमार्गेषु सर्वत्र सुरक्षा-व्यवस्था विन्यस्ता अस्ति। किञ्चिदपि प्रमादं न भवेत् इति हेतोः पुलिस तथा प्रशासनिकविभागः पूर्णतया सजागरूकावस्थायां स्थितः अस्ति। बरौलीस्थितात् प्रेमनगर आश्रमात् बरौली रेल्वेढालापर्यन्तं तथा बढ़ेया मोडात् आरभ्य बतरदे स्थितसारणबन्धपर्यन्तं प्रमुखमार्गेषु स्थले स्थले पुलिस्बलस्य तथा दण्डाधिकारिणां नियुक्तिः कृता अस्ति।
सुरक्षाव्यवस्थां अधिकं सुदृढां कर्तुं जनपदस्य वरिष्ठाः पुलिस् तथा प्रशासनिकाः अधिकारिणः स्वयमेव व्यवस्थां सम्भालयन्ति तथा निरन्तरं अनुश्रवणं पर्यवेक्षणं च कुर्वन्ति। जिलाधिकारीः, पुलिस अधीक्षकः, अनुमण्डलाधिकारीः तथा डीएसपी-2 अपि स्वयमेव सुरक्षाव्यवस्थायाः निरीक्षणं कुर्वन्ति। अधिकारिणां मध्ये सततसमन्वयं स्थापयितुं नियन्त्रणकक्षः (कण्ट्रोल् रूम्) सक्रियः कृतः अस्ति।
जनपदस्य विभिन्नपुलिस् थानाभ्यः पर्याप्तसंख्यायां पुलिस्बलस्य नियुक्तिः कृता अस्ति तथा आरक्षितबलं अपि सजगावस्थायां स्थापितम् अस्ति। जिलाधिकारीः अवदत् यत् मुख्यमन्त्रिणः कार्यक्रमकाले कानूनव्यवस्थायां सुरक्षायां वा कस्यचित् प्रकारस्य शिथिलता कदापि न सह्यते। सामान्यजनानामपि प्रार्थना कृता अस्ति यत् ते सुरक्षापरीक्षणे सहयोगं कुर्वन्तु तथा प्रशासनद्वारा प्रदत्तानां निर्देशानां पालनं कुर्वन्तु।
---------------
हिन्दुस्थान समाचार