Enter your Email Address to subscribe to our newsletters

राञ्चीनगरम्, २० जनवरीमासः (हि.स.)। मङ्गलवासरे झारखण्ड-राज्यस्य मुख्यमन्त्री हेमन्त-सोरेणेन सह स्वीडन–इण्डिया–व्यवसाय–परिषदः (Sweden–India Business Council) मुख्य–भारत–प्रतिनिध्या सेसिलिया–ओल्डने इत्यनेन शिष्टाचार–साक्षात्कारं कृतम्। अस्मिन् अवसरे झारखण्ड-विधानसभायाः महिला–बाल–विकास–समितेः अध्यक्षा तथा विधायिका कल्पना–मुर्मू–सोरेणः, झारखण्ड-सर्वकारस्य आधिकारिक-प्रतिनिधि-मण्डलं च उपस्थितम् आसीत्।सभायां झारखण्ड–स्वीडनयोः मध्ये व्यापारिकः, औद्योगिकः तथा निवेश-सहयोगः अधिकं सुदृढीकर्तुं विस्तृतः विचार-विमर्शः अभवत्।
मुख्यमन्त्री-सचिवालयेन प्रकाशितायां प्रेस–विज्ञप्तौ उक्तं यत् सेसिलिया–ओल्डने इत्यनेन झारखण्डेन सह व्यापारिक-सहभागिता-वर्धनार्थं स्वीडन–इण्डिया–व्यवसाय–परिषदः पूर्ण-सहयोगं दास्यति इति आश्वासनं दत्तम्। तया अवबोधितं यत् अधुना भारतस्य विभिन्न-क्षेत्रेषु पञ्चाशत् तो: अधिकाः स्वीडिश-निर्माण्यः सक्रियतया कार्यं कुर्वन्ति। झारखण्डः भविष्यति तासां निर्माणीनां कृते महत्त्वपूर्णः निवेश-गन्तव्यः, विशेषतः आधारभूत-संरचना, नगरीय-गतिशीलता, निर्माण-उद्योगः तथा हरित-प्रौद्योगिकी-क्षेत्रेषु।
सभायां दावोस-नगरे सम्पन्नानां चर्चाणां तथा गत-वर्षे मुख्यमन्त्री हेमन्त-सोरेणस्य स्वीडन-यात्रायां वोल्वो-आदि-स्वीडिश-निर्माणीभि: सह जातानां वार्तानां निष्कर्षाणाम् अपि समीक्षा कृता। एता: चर्चाः मूर्तरूपेण कार्यान्वितुम् अग्रिम-एप्रैल-मासे विशेष-गोलमेज-सम्मेलनस्य आयोजनं कर्तुम् उभय-पक्षयोः सहमति: अभवत्।
प्रस्ताविते सम्मेलने नगरीय-गतिशीलता-विषयेषु, विशेषतः नगर-परिवहनस्य वित्त-पद्धतिषु, दृढ-परिवहन-व्यवस्थायां तथा आधुनिक-प्रौद्योगिकी-प्रयोगेषु गहन-चर्चा भविष्यति।
अस्मिन् अवसरे मुख्यमन्त्री हेमन्त-सोरेणः अवदत् यत् झारखण्ड-सर्वकारः शिक्षायाः सुलभतां सुगमतां च वर्धयितुं निरन्तरं प्रयतते। राज्य-सर्वकारः प्रतिवर्षं सहस्रशः छात्रेभ्यः विद्यालय-गमनाय द्विचक्रिका: वितरति, येन दूरस्थ-प्रदेशेषु निवसन्तः बालकाः अध्ययनात् वञ्चिताः न भवेयुः।
मुख्यमन्त्री स्वीडन–इण्डिया–व्यवसाय–परिषदं प्रार्थितवान् यत् झारखण्डे द्विचक्रिका-प्रयोगस्य प्रभावशीलता-वर्धनाय तथा विद्यालयीय-छात्रेभ्यः ई–द्विचक्रिका–सम्भावनायाः विषये विस्तृता सम्भाव्यता–प्रतिवेदनम् (Feasibility Report) निर्मीयताम्। तेन ज्ञातुं शक्यते यत् कथं ई–द्विचक्रिका: सुरक्षिततया, अल्पव्ययेन तथा प्रभावी-रूपेण बालकेभ्यः प्रदातुं शक्याः, येन शिक्षाक्षेत्रे नवाचारः तथा पर्यावरण-अनुकूल-परिवहनं च प्रोत्साहितं भवेत्।
सभायाः अन्ते उभय-पक्षौ झारखण्ड–स्वीडनयोः दीर्घकालिक-सहभागितां नूतन-शिखरं नेतुं तथा परस्पर-सहयोगम् अधिकं सुदृढीकर्तुं प्रतिबद्धतां पुनः व्यक्तवन्तौ।
हिन्दुस्थान समाचार / अंशु गुप्ता