उपराज्यपाल मनोज सिन्हा श्रीनगरे पुनर्निर्मितस्य अमीरा कदलस्य कृतम् उद्घाटनम्
श्रीनगरम्, 20 जनवरीमासः (हि.स.)। उपराज्यपालः मनोजसिन्हा मङ्गलवासरे श्रीनगरनगरे पुनर्निर्मितस्य अमीराकदल-सेतॊः उद्घाटनं कृतवान्। अधिकारिणः अवदन् यत् अयं पादचारिसेतुः श्रीनगर-स्मार्ट-सिटी-परियोजनायाḥ अन्तर्गतं पुनर्विकसितः अस्ति। एकः अधिकारी अवदत्
उपराज्यपाल मनोज सिन्हा श्रीनगरे पुनर्निर्मितस्य अमीरा कदलस्य कृतम् उद्घाटनम्


श्रीनगरम्, 20 जनवरीमासः (हि.स.)।

उपराज्यपालः मनोजसिन्हा मङ्गलवासरे श्रीनगरनगरे पुनर्निर्मितस्य अमीराकदल-सेतॊः उद्घाटनं कृतवान्। अधिकारिणः अवदन् यत् अयं पादचारिसेतुः श्रीनगर-स्मार्ट-सिटी-परियोजनायाḥ अन्तर्गतं पुनर्विकसितः अस्ति।

एकः अधिकारी अवदत् यत् श्रीनगरस्य प्राचीनतमेषु सेतुषु अन्यतमः अयं सेतुः सार्वजनिकागमनस्य संवर्धनाय झेलम-नद्याः तटस्य वारसासौन्दर्यस्य प्रवर्धनाय च पादचारिसेतुरूपेण परिवर्तितः अस्ति।

उद्घाटनसमारोहकाले उपराज्यपालस्य सह काश्मीरमण्डलायुक्तः अंशुलगर्गः, काश्मीरक्षेत्रस्य पुलिसमहानिरीक्षकः, श्रीनगरस्य उपायुक्तः, श्रीनगर-स्मार्ट-सिटी-लिमिटेड् संस्थायाः मुख्यकार्यकारी-अधिकारी, लालचौक-विधानसभाक्षेत्रस्य विधायकः अहसानपरदेशी तथा अन्ये वरिष्ठाधिकारिणः अपि उपस्थिताः आसन्।

अयं सेतुः व्यस्तं लालचतुष्पथ- समीपस्थैः बाजारैः सह संयोजयन् एकः प्रमुखः सार्वजनिकस्थलरूपेण कार्यं करिष्यति तथा पादचारिणां कृते सांस्कृतिकः मनोरञ्जनात्मकश्च स्थलरूपेण अपि सेवां दास्यति। अयं सेतुः स्मार्ट-प्रकाशव्यवस्थया, उपवेशनस्थानैः, उन्नतैः पथैः च सुसज्जितः अस्ति, येन श्रीनगरस्य विकसित-नदीतट-विकासे महत्त्वपूर्णं योगदानं ददाति।

---------------

हिन्दुस्थान समाचार