Enter your Email Address to subscribe to our newsletters

भागलपुरम्, 20 जनवरीमासः (हि.स.)।
आसनसोले आयोजितायां रेलमण्डलसंसदीयसमितेः उपवेशनस्य भागलपुरस्य सांसदः अजयकुमारमण्डलः सहभागितां कृतवान्। उपवेशनसमये तेन भागलपुरसंसदीयक्षेत्रान्तर्गतस्य मालदारेलमण्डले स्थितेषु सर्वेषु रेलस्थानकेषु यात्रिकाणां कृते सम्पूर्णनागरिकसुविधानां पुनर्बहाली आवश्यकरेलयानानां सञ्चालनं ठहरावश्च एफओबी आरओबी अण्डरपासनिर्माणं च सहिताः अन्ये महत्त्वपूर्णाः यात्रिसुविधासम्बद्धाः विषयाः रेलअधिकारिणां समक्षं प्रमुखतया प्रस्तुताः।
तत्र उपस्थितैः रेलअधिकारीभिः सांसदेन प्रस्तुतासु सर्वासु मागासु आवश्यककार्यम् अवश्यं क्रियते इति आश्वासनं दत्तम्। अस्मिन् अवसरः सांसदः अजयकुमारमण्डलः भीखनपुरगुमटी संख्या एक द्वे च जनसामान्यस्य दीर्घकालिकमागानुसारम् अण्डरपासस्वीकृतेः कृते मालदाया डीआरएम प्रति कृतज्ञतां व्यक्तवान् तथा निर्माणकार्यं शीघ्रं प्रारभ्यताम् इति आग्रहं कृतवान्।
भागलपुरं पृथक् रेलमण्डलरूपेण स्थाप्यताम् इति मागा पुनः प्रमुखतया प्रस्तुता अभवत्। सांसदः अजयकुमारमण्डलः अवदत् यत् भागलपुरसंसदीयक्षेत्रस्य यात्रिकाणां कृते उत्तमाः सुरक्षिताः सुलभाश्च रेलसुविधाः उपलभ्यन्ताम् इति तस्य सर्वोच्चा प्राथमिकता अस्ति तथा अस्यां दिशि सः निरन्तरं रेलमन्त्रालयेन रेलअधिकारिभिः सह समन्वयं स्थापयति।
---------------
हिन्दुस्थान समाचार