Enter your Email Address to subscribe to our newsletters

भोपालनगरम्, २० जनवरीमासः (हि.स.)। लद्दाखप्रदेशे अद्य मङ्गलवासरात् ‘खेलो-इण्डिया विंटर-गेम्स–२०२६’ नाम्ना राष्ट्रिय-शीतकालीन-क्रीडा-महोत्सवस्य आयोजनम् आरभ्यते। एषः प्रतिष्ठितः क्रीडा-महोत्सवः २६ जनवरीमासपर्यन्तं प्रवर्तिष्यते। अस्मिन् महोत्सवे मध्यप्रदेशस्य पञ्चदश-सदस्यीयम् आइस-स्केटिङ्-क्रीडा-दलम् अपि सहभागं करिष्यति।
क्रीडा-एवम्-युवा-कल्याण-विभागेन दत्तायां सूचनायाम् उक्तं यत् चयनिताः क्रीडाः स्पीड-स्केटिङ् अन्तर्गतं शॉर्ट-ट्रैक तथा लॉङ्ग-ट्रैक प्रतियोगितासु सहभागं करिष्यन्ति। दलस्य सदस्याः प्रदेशस्य विविध-अञ्चलेभ्यः चयनिताः सन्ति। एता: क्रीडाः न केवलं स्व-व्यक्तिगत-प्रतिभायाः प्रदर्शनं करिष्यन्ति, अपि तु सम्पूर्ण-मध्यप्रदेशस्य क्रीडा-चेतनाया:, अनुशासनस्य युव-सामर्थ्यस्य च प्रतिनिधित्वं करिष्यन्ति।
प्रदेशीय-प्रतिभानां कृते लब्ध: राष्ट्रिय-मञ्चः
‘खेलो-इण्डिया विंटर-गेम्स’ इत्यस्य माध्यमेन देशव्यापिन्यः उदीयमानाः क्रीडा-प्रतिभाः राष्ट्रिय-अन्ताराष्ट्रिय-स्तरे प्रतिस्पर्धायाः अवसरं प्राप्नुवन्ति। मध्यप्रदेशात् चयनितैः क्रीडकै: निरन्तर-अभ्यासेन, अनुशासनेन, उत्कृष्ट-प्रदर्शनेन च अस्यां प्रतियोगितायां स्थानं सुनिश्चितं कृतम्। अस्मिन् दले सतना-नर्मदापुरम्-ग्वालियर-भोपाल इत्यादि-जनपदेभ्यः प्रतिभाशालिनः क्रीडाः सम्मिलिताः सन्ति।
पुरुष-वर्गः तथा महिला-वर्गः
पुरुष-वर्गे सचिन-गुप्तः, सुजल-साहूः, हर्ष-कसौंधनः, सूर्यांश-सिंहः, नॉयल-सी.-चेरियनः, कार्तिक-जगतापः, हर्ष-खत्री, दक्ष-पटेलः, प्रयत्न-शर्मा च स्व-कौशलस्य प्रदर्शनं करिष्यन्ति।
महिला-वर्गे आध्या-सोलंकी, दीपिका-राय:, रिया-चौबे, जलधि-तिवारी, उद्रेका-सिंह:, अवंतिका-सिंह: च प्रदेशस्य प्रतिनिधित्वं करिष्यन्ति।
एतेषां क्रीडकानां चयनम् अनुशासनस्य, निरन्तर-अभ्यासस्य, राज्य-स्तरीय-उत्कृष्ट-प्रदर्शनस्य च आधारेण कृतम्।
हिन्दुस्थान समाचार / अंशु गुप्ता