सतनाजनपदे अद्य आरभ्य द्विदिवसीय: वृहद् रोजगार-मेलापक: आयोज्यते
१० सहस्रं युवभ्य: रोजगार-प्रदानस्य लक्ष्यं, ७०–८० निर्माण्य: मेलापके सहभागं करिष्यन्ति सतनानगरम्, २० जनवरीमासः (हि.स.)। मध्यप्रदेशस्य सतना-जनपदे अद्य मङ्गलवासरे एकेएस-विश्वविद्यालयस्य शेरगंज-परिसरे “युवा-सङ्गमः” इति नाम्ना द्विदिवसीय: वृहद् रोजगार
खरगोनः युवा संगम


१० सहस्रं युवभ्य: रोजगार-प्रदानस्य लक्ष्यं, ७०–८० निर्माण्य: मेलापके सहभागं करिष्यन्ति

सतनानगरम्, २० जनवरीमासः (हि.स.)। मध्यप्रदेशस्य सतना-जनपदे अद्य मङ्गलवासरे एकेएस-विश्वविद्यालयस्य शेरगंज-परिसरे “युवा-सङ्गमः” इति नाम्ना द्विदिवसीय: वृहद् रोजगार-मेलापक: आयोज्यते।

अस्मिन् द्विदिवसीय-रोजगार-मेलापके ७० तः ८० पर्यन्तं विविध-क्षेत्रेषु कार्यरताः निर्माण्यः यूनां योग्यता-रुचि-आधारेण नव प्रमुख-क्षेत्रेषु रोजगारार्थं चयनं करिष्यन्ति। रोजगार-मेलापकस्य शुभारम्भः अद्य प्रातः ११ वादने भविष्यति। तस्मात् पूर्वं, ये यून: अन्तर्जाल-पञ्जीकरणात् वञ्चिताः आसन्, तेषां कृते प्रातः १० वादने स्थल-पञ्जीकरण-व्यवस्था अपि उपलब्धा भविष्यति।

राज्य-शासनस्य रोजगार-नीत्यानुसारं, यूनां योग्यता-आधारित-रोजगारेण संयोजनाय सशक्त-प्रयत्नस्य अनुक्रमे सतना-मैहर-जनपदयोः यूनः प्राथमिकतया स्वीकरिष्यन्ते। तेषां कौशलं, योग्यतां, रुचिं च अनुसृत्य उपयुक्ताः रोजगार-अवसराः प्रदीयन्ते।अस्मिन् रोजगार-मेलापके १० सहस्रं युवभ्य: रोजगार-प्रदानस्य लक्ष्यं निर्धारितम् अस्ति। “सतना रोजगार-पर्व २०२६” अन्तर्गतं एकेएस-विश्वविद्यालय-परिसरे अन्तर्जाल-साक्षात्-पञ्जीकृत-यूनां प्रत्यक्ष-साक्षात्काराः (इण्टरव्यू) आयोज्यन्ते। योग्य-अभ्यर्थिनां चयनं कृत्वा निर्माण्यः नियुक्ति-पत्राणि अपि प्रदास्यन्ते।जनपद-रोजगार-अधिकारिण: कथनम्जनपद-रोजगार-अधिकारी अनिल-सिंह-बागरी अवदत् यत्—अस्मिन् सम्पूर्ण-अभियाने उत्थान-सेवा-फाउण्डेशन तथा सेल्फ-एजुकेशन ए.के.एस्-विश्वविद्यालयः, शेरगंजः च प्रौद्योगिकी, राष्ट्रीय तथा बहुराष्ट्रीय-निर्माणीनां संयोजने महत्त्वपूर्णं योगदानं कुरूतः।

इदानीं पर्यन्तं ६ सहस्राधिकाः यून: आनलाइन-अफलाइन-पञ्जीकरणं कृतवन्तः। मेलापके स्थल-पञ्जीकरण-व्यवस्था अपि भविष्यति।

प्रमुखरोजगार-क्षेत्राणि

अस्मिन् रोजगार-मेलापके ९ प्रमुख-क्षेत्रेषु ७० तः अधिकाः प्रतिष्ठिताः निर्माण्यः सहभागं कुर्वन्ति— लॉजिस्टिक् एवं ई-कॉमर्स् रिटेल् अपैरल् सेक्टर, (वस्त्र-निर्माणम्, सिलाई, डिजाइन, पैकेजिङ्, ब्राण्डिङ्, विक्रयः) इलेक्ट्रॉनिक्स्, ऑटोमोटिव्, हेल्थ-केयर्, हॉस्पिटेलिटी, फिन्टेक्, इन्फ्रास्ट्रक्चर, इन्फॉर्मेशन-टेक्नोलॉजी सिक्योरिटी-सेक्टर इत्यादय:।

हिन्दुस्थान समाचार / अंशु गुप्ता