Enter your Email Address to subscribe to our newsletters

सारणम्, 20 जनवरीमासः (हि.स.)।
भगवतः श्रीरामस्य अयोध्याधाम्नि प्राणप्रतिष्ठायाः प्रथमवार्षिकोत्सवस्य अवसरः निमित्तं छपरानगरे आगामिनि २२ जनवरी २०२६ तमे दिनांके श्रीरामजन्मोत्सवशोभायात्रासमित्याः तत्वावधानें “एकः दीपः श्रीरामस्य नाम्ना” इति कार्यक्रमस्य आयोजनं विनिश्चितम् अस्ति। राजेन्द्रक्रीडाङ्गणस्य सम्मुखे स्थिते मारुतीमानसहनुमन्मन्दिरस्य प्राङ्गणे आयोजिते अस्मिन् कार्यक्रमे प्रायः एकादशसहस्राणि रामभक्ताः एकस्वरेण संगीतमयं हनुमान्चालीसापाठं करिष्यन्ति।
विश्वहिन्दूपरिषदा बजरङ्गदलेन च सहकारेण आयोजिते अस्मिन् महोत्सवे सम्पूर्णं वातावरणं शङ्खध्वनिना “जय श्रीराम” इति घोषैश्च निनादितं भविष्यति। “एकः दीपः श्रीरामस्य नाम्ना” इति अभियानस्य अन्तर्गतं विश्वहिन्दूपरिषदः बजरङ्गदलश्च सामूहिकं दीपोत्सवं आयोजयिष्यतः।
आयोजनसमित्याः प्रतिनिधी रितेशगुप्तः तथा धर्मप्रचारप्रसारप्रमुखः अरुणपुरोहितश्च सर्वान् नगरवासिनः सादरं आवाहयतः यत् ते कार्यक्रमे स्वसह एकं दीपं अनिवार्यतया आनयन्तु। अपि च ये केचन श्रद्धालवः केनचित् कारणेन मुख्यकार्यक्रमे सहभागितुं न शक्नुवन्ति ते स्वगृहेषु समीपस्थेषु मठमन्दिरेषु च न्यूनतमं पञ्च दीपान् प्रज्वालयित्वा अस्य राष्ट्रोत्सवस्य भागिनः भवन्तु इति अपि निवेदनं कृतम्।
विश्वहिन्दूपरिषद् बजरङ्गदलः श्रीरामजन्मोत्सवशोभायात्रासमितिश्च समस्तान् सनातनधर्मावलम्बिनः सपरिवारं अस्मिन् पुण्यकार्ये सम्मिलितुं आवाहयन्ति यत् एषः आयोजनः छपरानगरस्य सांस्कृतिकैक्यस्य अटूटश्रीरामभक्तेश्च अनुपमं प्रतीकं भूयात्।
---------------
हिन्दुस्थान समाचार