उत्तरप्रदेशे अधुना पलायनं न, ‘परावर्तनस्य’ समयः : मुख्यमंत्रीयोगी
-योगी सर्वकारस्य श्रम, रोजगार, निवेश- सामाजिक सुरक्षा मॉडलद्वारा परिवर्तते उत्तर प्रदेशस्य चित्रम् -युवभ्यः श्रमिकाभ्यः अधुना जीविका, शिक्षायै, स्वास्थ्याय सुरक्षायै प्रदेशं त्यक्तुं बाध्यता न -विकास, आत्मनिर्भरता समावेशी समृद्धेः नूतनकथा लिखत
मुख्यमंत्री योगी आदित्यनाथ


-योगी सर्वकारस्य श्रम, रोजगार, निवेश- सामाजिक सुरक्षा मॉडलद्वारा परिवर्तते उत्तर प्रदेशस्य चित्रम्

-युवभ्यः श्रमिकाभ्यः अधुना जीविका, शिक्षायै, स्वास्थ्याय सुरक्षायै प्रदेशं त्यक्तुं बाध्यता न

-विकास, आत्मनिर्भरता समावेशी समृद्धेः नूतनकथा लिखति उत्तर प्रदेशः

लखनऊ, 20 जनवरीमासः हि.स.)।

उत्तरप्रदेशः अद्य मुख्यमंत्रीयोगीआदित्यनाथस्य नेतृत्वे जीविकासृजनस्य औद्योगिकविकासस्य सामाजिकसुरक्षायाश्च नूतनं आदर्शं प्रस्तौति। गतपौनेनववर्षेषु योगिसर्वकारस्य नीतिनां प्रभावः इदानीं भूमौ स्पष्टतया दृश्यते। यत्र पूर्वं युवजनाः श्रमिकाश्च रोजगारार्थं प्रदेशं परित्यक्तुं विवशाः आसन् तत्र अधुना तेषां समीपे एव पर्याप्ताः अवसराः उपलब्धाः सन्ति। रोजगारशिक्षास्वास्थ्यसुरक्षाणां कृते प्रदेशत्यागस्य अधुना कापि बाध्यता नास्ति। पूर्वं राज्यात् बहिर्गताः युवजनाः श्रमिकाश्च अपि इदानीं पुनः स्वप्रदेशं प्रत्यागच्छन्ति। पलायनस्य स्थाने अधुना परावर्तनं आगतम् अस्ति यत् प्रदेशे विकासस्य आत्मनिर्भरत्वस्य समावेशीसमृद्धेश्च नूतनां कथां लिखति।

जीविकासृजनात् पलायने विरामः

प्रदेशसरकारस्य प्रवक्तुः मतानुसारं योगिसरकारस्य कार्यकाले औद्योगिकनिवेशेन एमएसएमईविस्तारेण सेवायोजनमेलनैः कौशलविकासयोजनाभिः च व्यापकस्तरे झ सृष्टः। बेरोजगारीदरायां ऐतिहासिकः न्यूनभावः अभवत् तथा लक्षशः युवजनाः शासकीये निजीक्षेत्रे च रोजगारं प्राप्नुवन्। सेवायोजनविभागेन सञ्चालिते सेवामित्रपोर्टले त्रिपञ्चाशत्सहस्राधिकाः कुशलकामगाराः पञ्जीकृताः सन्ति ये साक्षात् रोजगारैः संयोज्यन्ते।

औद्योगिकनिवेशः आधारभूतसंरचनाच विकासस्य मेरुदण्डः

प्रवक्त्रा उक्तं यत् इन्वेस्टयूपी माध्यमेन एकद्वारप्रणाली पारदर्शीप्रक्रियाः तथा ईजऑफडूइंगबिजनेससुधाराः निवेशकानां विश्वासं वर्धितवन्तः। द्रुतमार्गजालानि विमानपत्तनानि औद्योगिकपरिसराः रक्षाकोरिडोर चिकित्सामहाविद्यालयानि लॉजिस्टिककेन्द्राणि च उद्योगान् जनपदान् प्रति नीतवन्ति। उत्तरप्रदेशः रोजगारस्य कारखानाएककानां च विषये देशस्य शीर्षराज्येषु गण्यते। अधुना प्रदेशे त्रिंशत्सहस्राधिकाः कारखानाः सञ्चालिताः सन्ति येषां संख्या द्विसहस्रसप्तदशपर्यन्तं अर्धमात्रा अपि नासीत्। गतपौनेनववर्षेṣu युवजनानां श्रमिकाणां महिलानां च स्वगृहजनपदेषु रोजगारावसराः बहुगुणिताः।

श्रमिककल्याणेन सामाजिकसुरक्षया च दृढीकृतः विश्वासः

योगिसरकारः न केवलं रोजगारं किन्तु श्रमिकाणां तेषां परिवाराणां च सुरक्षा शिक्षां भविष्यं च प्रमुखतया स्वीकृतवती। पञ्जीकृतश्रमिकाणां बालकानां कोविडकाले निराश्रितबालकानां च कृते प्रत्येकमण्डले अटलआवासीयविद्यालयाः सञ्चालिताः। प्रत्येकविद्यालये शतं बालकबालिकानां आवासीयशिक्षा दीयते।

दुर्घटनामरणदिव्यांगतासु आर्थिकसमर्थनम्

सरकारेण श्रमिकाणां कृते सुदृढं सुरक्षाावरणं निर्मितम्। कार्यस्थले मरणे पञ्चलक्षरूप्यकाणि स्थायिदिव्यांगतायां त्रिलक्षरूप्यकाणि आंशिकदिव्यांगतायां द्विलक्षरूप्यकाणि पञ्जीकृतश्रमिकस्य दुर्घटनामरणे पञ्चलक्षरूप्यकाणि सामान्यमरणे द्विलक्षरूप्यकाणि पञ्चविंशतिसहस्ररूप्यकाणि अन्त्येष्टिसहायता अपञ्जीकृतश्रमिकस्य दुर्घटनामरणे लक्षपञ्चविंशतिसहस्ररूप्यकाणि च सहाय्यरूपेण प्रदीयन्ते। एते प्रावधानाः श्रमिकाणां असुरक्षां बहुतया निवारितवन्तः।

पेन्शनबैंकिंगपरिवारसुरक्षायोजनाः

प्रवक्त्रा उक्तं यत् प्रदेशे प्रधानमन्त्रिश्रमयोगीमानधनयोजना अटलपेन्शनयोजना मातृत्वशिशुबालिकामददायोजना निर्माणकामगारमरणदिव्यांगतासहायतायोजना इत्यासु लक्षशः लाभार्थिनः सन्ति। कन्याविवाहसहायतायोजनायां द्वयोः बालिकयोः विवाहे पञ्चपञ्चाशत्सहस्ररूप्यकेभ्यः एकषष्टिसहस्ररूप्यकपर्यन्तं सहाय्यं प्रदीयते। एतेन सुरक्षाकवचेन युवजनानां स्वसमीपे एव रोजगारभावना दृढीकृता। प्रधानमन्त्रिजनधनयोजनायां प्रदेशे नवकोटिपञ्चाशत्लक्षाधिकाःकोषाः उद्घाटिताः। निर्माणकामगारगंभीररोगसहायतायोजनान्तर्गतं शासकीयचिकित्सालयेषु चिकित्सायाः शतप्रतिशतव्ययप्रतिपूर्तिः क्रियते। एतेन श्रमिकपरिवाराणां आर्थिकभारः न्यूनः जातः तथा उत्तरप्रदेशे एव उत्तमाः स्वास्थ्यसेवाः लभ्यन्ते।

---------------

हिन्दुस्थान समाचार