Enter your Email Address to subscribe to our newsletters

वाराणसी, 20 जनवरीमासः(हि. स.)।
वाराणसीनगरे लोकसभानिर्वाचनकाले बहुजनसमाजपार्टीतः पूर्वप्रत्याशी अतहर जमाल लारी मङ्गलवासरे अवदत् यत् यदि अस्माकं जनाः स्वस्य कारखानायां वा दुकाने वा नमाजं पठन्ति, तर्हि तदपि अपराधरूपेण गण्यते, अस्माकं विरुद्धं अभियोगः अपि स्थापितः भवति। किमर्थं एतत् एवं भवति इति प्रश्नः उत्पद्यते। अन्येषां कृते तु कुत्रापि किमपि कृतं सर्वं क्षम्यते, न कश्चन अपराधः, न काचन समस्या दृश्यते। वर्तमानकाले एषः द्विविधमापदण्डः किमर्थं प्रचलितः इति सः प्रश्नं कृतवान्।
पूर्वप्रत्याशी अतहर जमाल लारी अवदत् यत् यदि मस्जिदः नमाजिपूर्णा भवति तथा बहिः नमाजः पठ्यते, तर्हि तत् अपराधः इति मन्यते। मार्गे, रेल्वे-प्लेटफॉर्मे, रेलयाने, निर्जने स्थले, उद्याने, क्रीडाङ्गणे वा यदि नमाजः पठ्यते, तर्हि तत् अपि अपराधः इति स्वीक्रियते। अद्य तु स्थितिः एतादृशी जाता यत् स्वगृहे अपि यदि वयं नमाजं पठामः, तदपि अपराधरूपेण गण्यते।
सः पुनः अवदत् यत् संविधानं किम् वदति, संविधानस्य अर्थः एव कः। अत्यन्तं दुःखेन वक्तव्यं यत् अस्माकं धार्मिकस्वातन्त्र्यं किमर्थं ह्रियमाणं दृश्यते। एतेषु स्थलेषु नमाजपाठेन किम् कस्यचित् विधिनियमस्य उल्लङ्घनं भवति अथवा शान्तेः बाधा उत्पद्यते इति प्रश्नः अपि तेन उपस्थितः कृतः।
---------------
हिन्दुस्थान समाचार