Enter your Email Address to subscribe to our newsletters


-मुख्यमंत्रिणः शहीद शिरोमणि गैंदसिंहस्य 201तमे हुतात्मदिवसे श्रद्धांजलिसभाकार्यक्रमः सम्पन्नः
रायपुरम् 21 जनवरीमासः (हि.स.)।
मुख्यमन्त्री विष्णुदेवसायः अद्य बुधवासरे अखिलभारतीय हल्बा–हल्बी आदिवासीसमाजस्य तत्वावधानात् रायपुरनगरे साइंस कॉलेज मैदानमध्ये आयोजिते शहीदशिरोमणि गैंदसिंहस्य २०१तमे शहादतदिवस एवं श्रद्धाञ्जलिसभा कार्यक्रमे सहभागी अभवत्। अस्मिन् अवसरे मुख्यमन्त्री सायः महानं जनजातीयनायकं तथा स्वातन्त्र्यसंग्रामस्य अग्रदूतं शहीद गैंदसिंहं पुण्यस्मरणं कृत्वा श्रद्धाञ्जलिं अर्पितवान्।
कार्यक्रमकाले मुख्यमन्त्री सायः शहीद गैंदसिंहस्य सम्मानार्थं नवा रायपुरे चतुष्पथस्य नामकरणं मूर्तिस्थापनं च, चंगोराभाटा स्थिते समाजस्य सामुदायिकभवनस्य जीर्णोद्धारं, तथा बालोदजिलायां देवरी, कांकेरजिलायां मरकाटोला, दानीटोला, नगरी, डोंगरगांव, एवं बस्तरजिलायां भानपुरी तथा करूटोला इति स्थलेषु हल्बासमाजस्य सामाजिककेन्द्रनिर्माणार्थं प्रत्येकस्थलाय दश-दशलक्ष-रूप्यकाणां (१०–१० लक्षरूप्यकाणां) प्रदानघोषणां कृतवान्। एतेन सह ग्रामे कितूर् रंगमञ्चनिर्माणस्य तथा चपका बस्तरस्थे श्रीराममन्दिरस्य जीर्णोद्धारस्य अपि घोषणा मुख्यमन्त्रिणा कृता।
कार्यक्रमं सम्बोधयन् मुख्यमन्त्री अवदत् यत् जनजातीयसमाजस्य इतिहासः अत्यन्तं गौरवशालीः समृद्धश्च अस्ति। देशे स्वातन्त्र्यसंग्रामस्य आरम्भः यद्यपि वर्षे १८५७ इति मन्यते, तथापि तस्मात् पूर्वमेव छत्तीसगढप्रदेशस्य भूमौ जनजातीयक्रान्तीनां निनादः श्रूयते स्म। महान् क्रान्तिकारी शहीद गैंदसिंहः आङ्ग्लशासनस्य विरुद्धं संघर्षं कुर्वन् वर्षे १८२५ मध्ये शहीदः अभवत्, तथा तस्मिन्नेव काले आदिवासीसमाजेन स्वातन्त्र्ययुद्धे अग्रणी भूमिका निर्वहिता।
मुख्यमन्त्री सायः अवदत् यत् छत्तीसगढप्रदेशे एके द्वे न, अपि तु समग्रतया चतुर्दश जनजातीयक्रान्तयः अभवन्, याभिः आङ्ग्लसत्तायाः मूलं कम्पितम्। एषा भूमिः शहीद वीर नारायण सिंह, शहीद गैंदसिंह तथा वीर गुण्डाधुर इत्यादीनां महान् जननायकानां भूमिः आसीत्। दुर्भाग्यवश दीर्घकालं पर्यन्तं एते वीराः जनजातीयनायकाः च इतिहासस्य पृष्ठेषु यथोचितं स्थानं न प्राप्तवन्तः। देशस्य प्रधानमन्त्री नरेन्द्रमोदी जनजातीयनायकानां योगदानं राष्ट्रीयस्तरे सम्मानितं कर्तुं महत्त्वपूर्णं कार्यं कृतवान् इति सः उक्तवान्।
मुख्यमन्त्री अवदत् यत् अद्य देशस्य सर्वोच्चपदे जनजातीयसमाजस्य दुहिता राष्ट्रपतिः द्रौपदी मुर्मू विराजते, तथा छत्तीसगढप्रदेशस्य नेतृत्वं अपि जनजातीयसमाजस्य पुत्रस्य हस्तेषु अस्ति। पूर्वप्रधानमन्त्री भारतरत्न श्रद्धेय अटल बिहारी वाजपेयी जनजातीयसमाजस्य सर्वाङ्गीणविकासार्थं ऐतिहासिकनिर्णयान् अकरोत्। तस्य नेतृत्वे जनजातीयकार्य मन्त्रालयस्य स्थापना अभवत्, यत् अद्य सहस्रकोटिरूप्यकराजस्वेन जनजातीयसमाजस्य विकासाय नूतनां दिशां प्रददाति।
मुख्यमन्त्री अवदत् यत् भगवान् बिरसा मुण्डायाः जयन्ती १५ नवम्बरदिनं ‘जनजातीय गौरव दिवस’ इति रूपेण आचरितुं निर्णयः ऐतिहासिकः अस्ति। धरती आबा ग्राम उत्कर्ष योजना तथा प्रधानमन्त्री जनमन योजना इत्येतयोः माध्यमेन जनजातीयसमाजस्य कल्याणस्य नूतना कथा लिख्यते।
अस्मिन् अवसरे मंत्रिमंडलीयो मन्त्री टंकराम वर्मा अवदत् यत् शहीद गैंदसिंहः छत्तीसगढप्रदेशस्य प्रथमः वीरः शहीदः जननायकः आसीत्, यः वर्षे १८२४–२५ मध्ये आङ्ग्लशासनस्य विरुद्धं संघर्षस्य शङ्खनादं कृतवान्। तेन आङ्ग्लैः संसाधनलूटं आदिवासिनां शोषणं च विरुद्धं साहसिकः संघर्षः कृतः। देशस्य स्वातन्त्र्यसंग्रामे छत्तीसगढप्रदेशस्य जनजातीयनायकानां योगदानं अतुलनीयम् इति सः उक्तवान्।
कार्यक्रमे अखिलभारतीय हल्बा–हल्बी आदिवासीसमाजस्य केन्द्रीयाध्यक्षः डॉ. देवेंद्र माहला, महामन्त्री गिरवर सिंह ठाकुर, महेश गागड़ा इत्यादयः समाजस्य अनेकाः गणमान्यनागरिकाः बहुसंख्यया उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार