Enter your Email Address to subscribe to our newsletters

भोपालनगरम्, २१ जनवरीमासः (हि.स.)। मध्यप्रदेशस्य ऊर्जामन्त्री प्रद्युम्न-सिंह-तोमरः अवदत् यत् मध्यप्रदेश-पावर-ट्रान्समिशन-निर्माणी (एम.पी.-ट्रानसको) डिजिटल-आत्मनिर्भरता-दिशि अन्यत् महत्त्वपूर्णं पादं प्रस्थितवती। निर्माण्या स्वकीयाम् आधिकारिक-ईमेल-प्रणालीं स्वदेशी-प्रौद्योगिक्या आधारितस्य ‘जोहो’-कॉर्पोरेशन-इत्यस्य मञ्चे सफलतया स्थानान्तरितवती अस्ति।
ऊर्जामन्त्री बुधवासरे सूचितवान् यत् अस्य प्रयत्नस्य उद्देश्यं दत्तांश-सुरक्षायाः (डेटा-सुरक्षा) दृढीकरणम्, सञ्चालनस्य विश्वसनीयताया: वृद्धिः, तथा विदेशीय-मञ्चेषु निर्भरता न्यूनता च अस्ति।
एषः प्रयासः “डिजिटल-इण्डिया” अभियानस्य दिशि अन्यः महत्त्वपूर्णः चरणः अस्ति। एम.पी.-ट्रानसको-इत्यस्य सूचना-प्रौद्योगिकी-प्रमुखः (आई.टी. हेड) वैद्यः हिमांशु-श्रीवास्तवः अवदत् यत् उन्नत-विशेषताभिः युक्ते ‘जोहो’-मञ्चे ईमेल-प्रणाल्याः स्थानान्तरणेन सुरक्षित-दत्तांश-आतिथ्य-व्यवस्था (सेक्योर-डेटा-होस्टिंग), उत्तमं प्रवेश-नियन्त्रणम्, उन्नत-अपशब्द-निवारण-प्रणाली (स्पैम-नियन्त्रणम्), साइबर-सुरक्षा-विशेषताः च सुनिश्चिताः भविष्यन्ति। एतेन निर्बाधः संचारः अपि सम्भवः भविष्यति।
एषः निर्णयः भारत-सर्वकारस्य “डिजिटल-इण्डिया” तथा “आत्मनिर्भर-भारत” विषयवस्तुनः अनुरूपम् अस्ति। उल्लेखनीयम् अस्ति यत् एम.पी.-ट्रानसको पूर्वमेव स्वदेशी-‘अरट्टे’-मञ्चस्य उपयोगम् आरब्धवती। तदनन्तरं अत्यन्त-संवेदनशीलः स्काडा-प्रणाली (SCADA System) अपि स्वदेशी-प्रौद्योगिक्या उपकरणैश्च उन्नीता, येन ट्रान्समिशन-जालस्य वास्तविक-समय-निरीक्षणम्, विश्वसनीयता, साइबर-सुरक्षा च उल्लेखनीय-रूपेण वर्धिताः।
हिन्दुस्थान समाचार / अंशु गुप्ता