श्रीराम-जन्मभूमि-तीर्थक्षेत्र-न्यासस्य अध्यक्षस्य महन्त-नृत्य-गोपाल-दासस्य स्वास्थ्य-स्थिति: सम्यक् न अस्ति
अयोध्यानगरम्, २१ जनवरीमासः (हि.स.)। श्रीराम-जन्मभूमि-तीर्थक्षेत्र-न्यासस्य अध्यक्षस्य महन्त-नृत्य-गोपाल-दासस्य स्वास्थ्य-स्थितिः अवनता जाता अस्ति। सः गत-षट्त्रिंशत्-होराभ्य: भोजनं न स्वीकृतवान्। श्रीराम-चिकित्सालयस्य सेवानिवृत्त-वैद्यः एस.के.पाठक
महंत नृत्य गोपाल दास


अयोध्यानगरम्, २१ जनवरीमासः (हि.स.)। श्रीराम-जन्मभूमि-तीर्थक्षेत्र-न्यासस्य अध्यक्षस्य महन्त-नृत्य-गोपाल-दासस्य स्वास्थ्य-स्थितिः अवनता जाता अस्ति। सः गत-षट्त्रिंशत्-होराभ्य: भोजनं न स्वीकृतवान्।

श्रीराम-चिकित्सालयस्य सेवानिवृत्त-वैद्यः एस.के.पाठकः अवदत् यत् तस्य स्वास्थ्यं सम्यक् नास्ति। तस्य वमनं (उल्टी) अतिसारः (दस्त) च निरन्तरं भवतः। स्वास्थ्य-स्थितेः अधिक-अवनतौ सः लखनऊ-नगरे स्थितं मेदान्ता-चिकित्सालयं प्रति प्रेषितः। उत्तराधिकारी महन्त-कमलनयन-दासः बुधवासरे तं गृहीत्वा लखनऊ-मेदान्ता-चिकित्सालयं प्रति प्रस्थितवान्।

हिन्दुस्थान समाचार / अंशु गुप्ता