Enter your Email Address to subscribe to our newsletters

हरिद्वारम्, २१ जनवरीमासः (हि.स.) – अपर–जनपदाधिकारी (वित्त–राजस्व) दीपेन्द्र–सिंह–नेगिन: अध्यक्षतायां विकासखण्ड–बहादराबादस्य न्याय–पञ्चायत–बहादुरपुर–जट–नेहरू–मेमोरियल–कनिष्ठ–उच्च–विद्यालये “जन–जनस्य सर्वकारः, जन–जनस्य द्वारम्” इति शिविरस्य आयोजनं कृतम्। अस्मिन् शिविरे विभिन्न–विभागैः सञ्चालिताभ्यः जन–कल्याणकारी–योजनाभ्यः ७६८ क्षेत्रवासिन: जनाः लाभान्विताः, तथा १८७ जनानां विविध–प्रमाणपत्राणि निर्गतानि। शिविरे २१७६ जनाः उपस्थिताः आसन्। शिविरे क्षेत्रवासिभिः विभिन्न–विभागसम्बद्धाः ९४ समस्याः पञ्जीकृताः, तासु २९ समस्याः तत्क्षणमेव निराकृताः। अवशिष्टाः समस्याः शीघ्र–निस्तारणाय सम्बन्धित–विभागेषु प्रेषिताः।
कार्यक्रमं सम्बोधयन् समाज–कल्याण–योजना–अनुश्रवण–समितेः उपाध्यक्षः (राज्य–मन्त्री–स्तरः) देशराज–कर्णवालः अवदत् यत्, प्रदेशस्य यशस्वी मुख्यमन्त्री पुष्कर–सिंह–धामिन: निर्देशानुसार राज्यस्य सर्वेषु न्याय–पञ्चायतेषु एतत् अभियानं सञ्चाल्यते। अस्य उद्देश्यं पात्र–नागरिकेभ्यः जन–कल्याणकारी–योजनानां लाभं प्रदातुं तथा तेषां समस्याः शीघ्रतया निराकर्तुं च अस्ति।
सः अवदत् यत्, “जन–जनस्य सर्वकारः, जन–जनस्य द्वारम्” कार्यक्रमेषु ग्रामीणानां महती सहभागिता दृश्यते, तथा विभिन्न–विभागैः सञ्चालिताभ्यः योजनाभ्यः जनाः लाभान्विताः भवन्ति। भूमिविवादः, अतिक्रमणम्, विद्युत्–व्ययपत्रम्, जलपूर्ति:, चक्रमार्गः, स्वच्छता–समस्याश्च प्रमुखाः आसन्। कार्यक्रमं सम्बोधयन् पूर्व–कैबिनेट–मन्त्री, भाजप–प्रदेश–उपाध्यक्षः यतीश्वरानन्दः अवदत् यत्, मुख्यमन्त्रिणः कुशल–नेतृत्वेन सर्वकारस्य बहवः महत्त्वाकाङ्क्षिणः योजनाः सञ्चालिताः सन्ति, तासां योजनानां लाभः सामान्य–जनानां समीपं नीयते इति उद्देश्येन एषः कार्यक्रमः आयोज्यते।
अपर–जनपदाधिकारी (राजस्व–प्रशासन) महोदयेन सम्बन्धित–अधिकारिणः निर्देशिताः यत्, येषाम् अभियोगानां शिविरे निराकरणं न जातम्, तेषां शीघ्र–निस्तारणं सुनिश्चितं कुर्वन्तु।
शिविरे राज्य–मन्त्री जयपाल–सिंह–चौहानः, जिला–पञ्चायत–उपाध्यक्षः अमित–चौहानः, ब्लॉक–प्रमुखा आशा–नेगी, कनिष्ठ–उप–प्रमुखः धर्मेन्द्र–सिंहः, खण्ड–विकास–अधिकारी मानस–मित्तलः इत्यादयः अपि उपस्थिताः आसन्।
हिन्दुस्थान समाचार / अंशु गुप्ता