Enter your Email Address to subscribe to our newsletters

लखनऊ, 22 जनवरीमासः (हि.स.)। आयुष्मानभारतयोजनायां डिजिटलनवाचारैः तथा सामाजिकमाध्यमानां माध्यमेन जनजनपर्यन्तं योजनालाभं प्रापयितुं योगीसरकारस्य प्रशंसा अन्येषु राज्येषु अपि क्रियते। अस्य ताजं उदाहरणं ओडिशाराज्यस्य राजधानी भुवनेश्वरनगरे आयुष्मानभारतयोजनाविषये आयोजिते द्विदिवसीये “चिन्तनशिविरे” दृष्टुं लब्धम्। अस्य शिविरस्य उद्देशः आयुष्मानभारतयोजनायाः अन्तर्गतं अद्यावधि जातायाः प्रगतेः समीक्षा तथा सम्पूर्णदेशस्य राज्येषु सफलमाडलानां श्रेष्ठकार्यप्रणालीनां च परस्परं साझाकरणं आसीत्। शिविरस्य आयोजनं राष्ट्रियस्वास्थ्यप्राधिकरणेन (एनएचए) स्वास्थ्यपरिवारकल्याणमन्त्रालयस्य अधीनं ओडिशासरकारस्य सहयोगेन कृतम्।
स्टेटहेल्थएजेन्सी “साचीज” इत्यस्य मुख्यकार्यकारी अधिकारी अर्चना वर्मा अवदत् यत् शिविरे आयुष्मानभारतप्रधानमन्त्रीजनआरोग्ययोजना तथा आयुष्मानभारतडिजिटलमिशनविषये विस्तरेण चर्चा कृता। चिन्तनशिविरे उत्तरप्रदेशराज्यः आयुष्मानभारतप्रधानमन्त्रीजनआरोग्ययोजनायाः अन्तर्गतं डिजिटलनवाचारानां प्रभावीप्रयोगाय विशेषरूपेण प्रशंसितः। लाभार्थिषु जागरूकतावर्धनं सूचनायाः सुलभप्राप्तिः सेवाभिः सरलतया लाभप्रदानं च कर्तुं उत्तरप्रदेशेन कृतानां डिजिटलप्रयत्नानां मुक्तकण्ठेन प्रशंसा कृता।
सहमुख्यकार्यकारी अधिकारी पूजा यादव अवदत् यत् डिजिटलनवाचारेषु “आयुष्मानसारथी” नामकं मोबाइल-अनुप्रयोगं प्रमुखम् अस्ति, यत् लाभार्थिभ्यः सूचीबद्धानां चिकित्सालयानां अन्वेषणस्य सुविधा ददाति। अस्य अनुप्रयोगस्य माध्यमेन जनाः स्वसमीपस्थेषु पैनलचिकित्सालयेषु सूचनां सुलभतया प्राप्नुवन्ति। तदतिरिक्तं उत्तरप्रदेशे लाभार्थीनां प्रश्नानां शीघ्रसमाधानाय “आयुष् एआइ चैटबॉट्” अपि महत्त्वपूर्णां भूमिकां निर्वहति। एषः चैटबॉट् पञ्चदशसहस्राधिकलाभार्थीनां प्रश्नानां उत्तराणि दत्त्वा सहायककेन्द्रे वा प्रत्यक्षसहायतायां आश्रयणं अत्यन्तं न्यूनं कृतवान्।
तथैव बाह्यरोगीसेवानां अधिकसुलभतायै “आयुष्मानसम्पर्क” इति मञ्चः ओपीडी-नियुक्तिबुकिङ्गव्यवस्थारूपेण प्रारब्धः, येन अद्यावधि षट्शताधिकनियुक्तयः बुक्कृताः सन्ति। अनेन बाह्यरोगीसेवाभ्यः प्रवेशः सुलभः जातः तथा अनावश्यकपरिभ्रमणं अपि न्यूनं जातम्।
हिन्दुस्थान समाचार