मुख्यमंत्रिणा मुनक नलिकायाः पुनरुद्धारः, छठ घट्टस्य विकास कार्याणां कृतः शिलान्यासः
नव दिल्ली, 22 जनवरीमासः (हि.स.)। दिल्लीप्रदेशस्य मुख्यमन्त्री रेखा गुप्ता गुरुवासरे शालीमार बाग विधानसभा क्षेत्रे ड्राई मुनक नहरस्य पुनरुद्धारकार्यस्य, छठ्–घाटस्य विकासस्य, सर्विस् रोड् निर्माणस्य तथा सिंगलपुर सेतुः (पुल) विस्तारीकरण–सौन्दर्यीकरण
शालीमार बाग विधानसभा में ड्राई मुनक नहर के पुनरुद्धार एवं छठ घाट के विकास, सर्विस रोड के निर्माण तथा सिंगलपुर पुल के चौड़ीकरण और सौंदर्यीकरण कार्यों का शिलान्यास  करती दिल्ली की मुख्यमंत्री रेखा गुप्ता


नव दिल्ली, 22 जनवरीमासः (हि.स.)।

दिल्लीप्रदेशस्य मुख्यमन्त्री रेखा गुप्ता गुरुवासरे शालीमार बाग विधानसभा क्षेत्रे ड्राई मुनक नहरस्य पुनरुद्धारकार्यस्य, छठ्–घाटस्य विकासस्य, सर्विस् रोड् निर्माणस्य तथा सिंगलपुर सेतुः (पुल) विस्तारीकरण–सौन्दर्यीकरणकार्यस्य च शिलान्यासं कृतवती।

मुख्यमन्त्री एक्स माध्यमे लिखित्वा अवदत् यत् छठ्–पूजा, दुर्गा–पूजा तथा गणेश–पूजा इत्यादयः अस्माकं पर्वाणि अस्माकं परिचयस्य प्रतीकानि सन्ति। अयं नवः छठ्–घाटः जनानां श्रद्धायाः, परम्परायाः तथा संस्कृतेः केन्द्ररूपेण विकसितो भविष्यति। ड्राई मुनक नहरस्य पुनरुद्धारेण एषः प्रदेशः स्वच्छः, रमणीयः तथा उपयोगी सार्वजनिकस्थलरूपेण विकसितः भविष्यति।

सा अवदत् यत् एतेषां कार्याणां परिणामस्वरूपेण शालीमार बाग, पीतमपुरा, केशवपुरम, नेताजी सुभाष प्लेस, पंजाबी बाग तथा कोहाट एन्क्लेव इत्येषु प्रदेशेषु निवसतां जनानां प्रत्यक्षः लाभः भविष्यति। अत्र एकस्मिन्नेव काले त्रिसहस्रात् चतुःसहस्रपर्यन्तं जनाः प्रातःकाले भ्रमणाय आगन्तुं शक्नुवन्ति। तथा च यातायातव्यवस्थापि अधिकं सुदृढा भविष्यति।

अस्मिन् अवसरे सांसदः प्रवीण खण्डेलवालः, मन्त्रिपरिषदस्य सदस्यः प्रवेश साहिब सिंहः, विधायकः पूनम भारद्वाजः तथा केशवपुरम जिलाध्यक्षः अजय खटानाश्च उपस्थिताः आसन्।

-----------

हिन्दुस्थान समाचार