मुख्यमन्त्रिणा समीक्षा–सभां कृत्वा महत्त्वपूर्ण–परियोजनासु प्रत्यक्ष–निरीक्षणाय निर्देशाः दत्ताः
नवदेहली, २२ जनवरीमासः (हि.स.)।मुख्यमन्त्री रेखागुप्ता गुरुवासरे देहली–सचिवालये सर्वेषां विभागानां प्रमुखैः अधिकारिभिः सह उच्चस्तरीयां समीक्षा–सभां कृतवती। अस्यां सभायां विभागानां कार्य–प्रणाली, प्रवर्तमान–परियोजनानां प्रगतिः, तथा आगामि–वित्तीय–वर्ष
दिल्ली सचिवालय में सभी विभागों के प्रमुख अधिकारियों के साथ उच्चस्तरीय समीक्षा बैठक करती मुख्यमंत्री रेखा गुप्ता


नवदेहली, २२ जनवरीमासः (हि.स.)।मुख्यमन्त्री रेखागुप्ता गुरुवासरे देहली–सचिवालये सर्वेषां विभागानां प्रमुखैः अधिकारिभिः सह उच्चस्तरीयां समीक्षा–सभां कृतवती। अस्यां सभायां विभागानां कार्य–प्रणाली, प्रवर्तमान–परियोजनानां प्रगतिः, तथा आगामि–वित्तीय–वर्षस्य योजनाः इत्यादिषु विषयेषु विस्तृतं विमर्शं जातम्।

सभायां मुख्यमन्त्रिणा अधिकारिणः स्पष्टतया निर्देशिताः यत् पञ्च–कोटि–रूप्यकात् अधिक–व्यय–युक्ताः सर्वाः परियोजनाः एकसप्ताहाभ्यन्तरे ‘सी.एम.–प्रगति’–पटले (विभागीय–निरीक्षणार्थम् आन्तरिक–पटले) अद्यतन–रूपेण अभिलेखनीयाः भवन्तु। अनेन परियोजनानां निरीक्षणं, समयबद्धा समीक्षा तथा उच्च–स्तरे नियमित–मॉनिटरिङ् सुनिश्चितं भविष्यति। अस्यां उच्चस्तरीय–सभायां मुख्य–सचिवः राजीव–वर्मणा सह सर्वे विभागीय–सचिवाः वरिष्ठ–अधिकारिणश्च उपस्थिताः आसन्।

मुख्यमन्त्रिणा उक्तं यत् प्रत्येकं विभागः स्व–स्व–पटले विकास–कार्याणां प्रगति–प्रतिवेदनं निरन्तरम् अद्यतनं करोतु, येन सामान्य–जनाः कार्याणां यथार्थ–स्थितिं ज्ञातुं शक्नुवन्ति तथा शासन–व्यवस्थायां पारदर्शिता अविच्छिन्ना तिष्ठेत्। तया प्रतिपादितं यत् देहली–सर्वकारस्य सङ्कल्पः अस्ति—सर्वाः परियोजनाः निर्धारित–समय–सीमायां पूर्णाः भवन्तु, प्रत्येकं विभागः उत्तरदायी भवतु, तथा जनतायै विकास–कार्याणां वास्तविक–स्थितिः नियमिततया उपलब्धा भवतु। तया सर्वेभ्यः विभागेभ्यः लम्बित–परियोजनानाम् उच्च–गुणवत्तया शीघ्र–समापनस्य अपि निर्देशाः दत्ताः।

मुख्यमन्त्रिणा सूचितं यत् शीघ्रमेव ‘देहली–मित्र’–पटलस्य शुभारम्भः भविष्यति। एषः पटल: नागरिकाणाम् अभियोगानां त्वरित–प्रभाव–निवारणाय समर्पितः डिजिटल–मञ्चः भविष्यति। तया पटल–सम्बद्धानां सर्वेषां तान्त्रिक–प्रशासनिक–कार्याणां शीघ्र–समापनस्य निर्देशाः अपि दत्ताः। तया स्पष्टं कृतं यत् कर्मचारिणां प्रशिक्षणम्, तान्त्रिक–परीक्षणं तथा विभाग–संयोजन–कार्यं निश्चित–समये पूर्णं भवतु, येन एतत् पटलं कस्यापि विलम्बं विना जनतायै आरब्धुं शक्येत। तया उक्तं यत् एतत् पटलं सर्वकार–नागरिकयोः मध्ये प्रत्यक्ष–संवादस्य प्रभावी माध्यमं भविष्यति, येन अभियोग–निवारण–प्रक्रिया अधिकं सरलाः, शीघ्राः, विश्वसनीयाः च भविष्यन्ति।

मुख्यमन्त्रिणा सर्वेभ्यः विभागेभ्यः अग्रिम–ग्रीष्म–ऋतवे पूर्वमेव सर्वासां व्यवस्थाः सम्पन्नीकर्तुं निर्देशाः दत्ताः। जल–आपूर्तिः, विद्युत्–व्यवस्था, चिकित्सालय–सुविधाः, मार्ग–मरम्मत–कार्याणि तथा अन्याः सार्वजनिक–सेवाः—एतेषु सर्वेषु विषयेषु समये एव कार्य–आरम्भः करणीयः इति तया बलं दत्तम्। तया विशेषतया प्रतिपादितं यत् ग्रीष्म–काले नागरिकाः कस्यापि प्रकारस्य असुविधां न अनुभवेयुः तथा सर्वाः अत्यावश्यक–सेवाः सुचारु–रूपेण सञ्चालयन्तु।

अन्ते मुख्यमन्त्रिणा उक्तं यत् देहली–सर्वकारः ‘परिणाम–आधारित–प्रशासनस्य’ दिशि कार्यं कुर्वती अस्ति, यत्र योजनाः केवलं कागदेषु सीमिताः न भविष्यन्ति, अपि तु भूमौ स्पष्ट–परिणामरूपेण दृश्यन्ते।

हिन्दुस्थान समाचार / अंशु गुप्ता