डाॅ. एन. पी. सिंहोऽद्य आगमिष्यति रायपुरं, भारतीय शिक्षा बोर्ड कार्यालयस्य करिष्यति शुभारंभम्
रायपुरम् 22 जनवरीमासः (हि.स.)। पतंजलि योग पीठ हरिद्वारद्वारा सञ्चालितस्य नेशनल् स्कूल् शिक्षा बोर्ड इत्यस्य शाखाकार्यालयस्य शुभारम्भः अद्य गुरुवासरे भविष्यति। अस्य शुभारम्भावसरे भारतीय शिक्षा बोर्डस्य अध्यक्षः डा. एन. पी. सिंह महोदयः मुख्यातिथिर
डा. एन. पी. सिंह फाइल फाेटाे


रायपुरम् 22 जनवरीमासः (हि.स.)।

पतंजलि योग पीठ हरिद्वारद्वारा सञ्चालितस्य नेशनल् स्कूल् शिक्षा बोर्ड इत्यस्य शाखाकार्यालयस्य शुभारम्भः अद्य गुरुवासरे भविष्यति। अस्य शुभारम्भावसरे भारतीय शिक्षा बोर्डस्य अध्यक्षः डा. एन. पी. सिंह महोदयः मुख्यातिथिरूपेण उपस्थितः भविष्यति।

भारतीयशिक्षाबोर्ड इत्यस्य छत्तीसगढ-प्रभारी छबिराम साहू अवदत् यत् अस्य शाखाकार्यालयस्य शुभारम्भः अद्य भाठागाँव-स्थिते वालफोर्ट् सिटी हाइट्स् एबीटी टावरे, रायपुर नगरे, छत्तीसगढराज्ये भविष्यति। अस्य कार्यक्रमस्य उद्घाटनं स्वाभिमान ट्रस्ट छत्तीसगढस्य संरक्षकः सुनील रामदास अग्रवाल महोदयः करिष्यति।

अस्य कार्यक्रमस्य विशेषातिथयः— राजेश सिंह राणा (मुख्यकार्यपालनाधिकारी, क्रेडा, छत्तीसगढ), सन्तः युधिष्ठिरलाल शदाणी (रायपुर, छत्तीसगढ), अरविन्द मिश्रा (जिला शिक्षा अधिकारी, दुर्ग, छत्तीसगढ), तथा प्रणव शर्मा (सभापतिः, जनपद पंचायत पाटन, दुर्ग, छत्तीसगढ) भविष्यन्ति।

उल्लेखनीयं यत् भारतीयशिक्षाबोर्ड रायपुर छत्तीसगढद्वारा आयोजिते अस्मिन् कार्यक्रमे विशेषयोगदानकर्तारः जे. पी. महामल्ला, टी. पी. देवांगन, ढालचन्द जैनः तथा प्रह्लाद दमाहे इत्यादयः अपि सहभागं करिष्यन्ति।

हिन्दुस्थान समाचार