राँची–विश्वविद्यालयस्य आई.एम.एस.मध्ये राज्य–स्तरीय–संगोष्ठी आयोज्यते
राँचीनगरम्, २२ जनवरीमासः (हि.स.)। राँची–विश्वविद्यालयस्य इन्स्टिट्यूट ऑफ मैनेजमेंट स्टडीज (आई.एम.एस.) मध्ये गुरुवासरे राज्य–स्तरीय–संगोष्ठी आयोजि‍ता। अस्या: संगोष्ठ्या: विषयः “व्यवहारिकवित्तम् एवं निर्णय–निर्माणम् : अन्तर्विषयगत–दृष्टिकोणः” आसीत्।
सेमिनार का उद्धाटन करते अतिथ‍ियों की तस्‍वीर


राँचीनगरम्, २२ जनवरीमासः (हि.स.)। राँची–विश्वविद्यालयस्य इन्स्टिट्यूट ऑफ मैनेजमेंट स्टडीज (आई.एम.एस.) मध्ये गुरुवासरे राज्य–स्तरीय–संगोष्ठी आयोजि‍ता। अस्या: संगोष्ठ्या: विषयः “व्यवहारिकवित्तम् एवं निर्णय–निर्माणम् : अन्तर्विषयगत–दृष्टिकोणः” आसीत्। कार्यक्रमे विभिन्न–विषयेषु शोध–पत्राणि प्रस्तुतानि। चयनित–शोध–पत्राणि ISBN सङ्ख्यया सह पुस्तक–रूपेण प्रकाश्यन्ते इत्यपि सूचितम्।

मुख्यातिथि–रूपेण राँची–विश्वविद्यालयस्य कुलपतिः प्रो.(डा.) डी. के.सिंह: उपस्थितः आसीत्। तेन उक्तं यत् अस्या: संगोष्ठ्या: लक्ष्यं व्यवहारिक–वित्तं, निर्णय–निर्माणं च प्रबन्धन-सम्बद्ध-मनोवैज्ञानिक-व्यवहारिक–प्रयत्नेषु अकादमिक–विमर्शस्य संवर्धनं कर्तुम् अस्ति। प्रो.सिंहेन बिहेवीयर फीनान्स् एवं निर्णय–निर्माणं विषयमाधृत्य वैश्विक–उदाहरणैः उक्तं यत्, यत्र निर्णयानां प्रभावः अर्थव्यवस्था तथा समाजे विस्तीर्ण–स्तरे दृश्यते। तेन छात्रान् प्रबन्धन-उद्यमिता तथा स्टार्टअप–संबद्ध महत्वपूर्ण–प्रयत्नै: च परिचिताः कृताः।संगोष्ठ्यां डा.स्मृति सिंह:, डा.मुकुंदचंद्र: मेहता, तथा आई.एम.एस.–निदेशकः डा.अमरकुमार: चौधरी अनेकै: उदाहरणैः प्रबन्धन-व्यवहारिक–ज्ञानम्, समय–प्रबंधनम्, समूहकार्यं तथा नेतृत्व–क्षमता-विषयेषु विचारान् सहभागं कृतवन्तः।

अस्मिन् अवसरे बिहेवीयर फीनान्स, निवेश–मनोविज्ञानम्, प्रबंधकीय निर्णय–निर्माणम्, मानव–संसाधन–प्रबंधनम्, उपभोक्ता–व्यवहार:, व्यवहारिक–अर्थशास्त्रम्, सूचना–प्रौद्योगिकीविषयेषु च विशेष–चर्चा जाता।

सर्वे प्रतिभागिनः प्रमाण–पत्रैः सम्मानिताः। कार्यक्रमे विश्वविद्यालयस्य प्राध्यापकाः, शोधार्थिनः तथा छात्र–छात्राः विशेष–संख्यया उपस्थिताः आसन्।

हिन्दुस्थान समाचार / अंशु गुप्ता