गुणवत्ता-आधारित शिक्षा एव भविष्यस्य परिचयः -जयराम ठाकुरः
धर्मशाला, 22 जनवरीमासः (हि.स.)। हिमाचलप्रदेशकेन्द्रीयविश्वविद्यालयस्य (सीयूएचपी) षोडशः स्थापना-दिवसः सप्ताह-समारोहश्च २०२६ ईसवीयवर्षे राजकीयमहाविद्यालयस्य धर्मशालास्थिते सभागारे वीरवासरे सम्यक् सम्पन्नः। अस्मिन् अवसरे मुख्यातिथिरूपेण जय राम ठाकुर
केंद्रीय विश्वविद्यालय के कलेंडर का विमोचन करते हुए जय राम ठाकुर।


धर्मशाला, 22 जनवरीमासः (हि.स.)।

हिमाचलप्रदेशकेन्द्रीयविश्वविद्यालयस्य (सीयूएचपी) षोडशः स्थापना-दिवसः सप्ताह-समारोहश्च २०२६ ईसवीयवर्षे राजकीयमहाविद्यालयस्य धर्मशालास्थिते सभागारे वीरवासरे सम्यक् सम्पन्नः। अस्मिन् अवसरे मुख्यातिथिरूपेण जय राम ठाकुर महोदयः, नेता प्रतिपक्षः तथा पूर्वमुख्यमन्त्री, उपस्थितः आसीत्। कार्यक्रमस्य अध्यक्षतां कुलपतिः प्रो. सत् प्रकाश बंसल महोदयः अकरोत्, विशिष्टातिथिरूपेण च प्रो. भोला राम गुर्जर महोदयः, निदेशकः एनआईटीटीटीआर चण्डीगढः, उपस्थितः आसीत्।

मुख्य अतिथिरूपेण जय राम ठाकुर महोदयः विश्वविद्यालयस्य षोडशवर्षीयायाः सफलायाः यात्रायै सर्वान् अभिनन्दितवान्। सः अवदत् यत् एकस्मिन्नेव स्थाने पर्याप्तभूमेः अभावात् विश्वविद्यालयस्य विकासः द्वयोः परिसरोः मध्ये प्रचलति। सः अपि अवदत् यत् विश्वविद्यालयस्य उद्घाटनविषये प्रधानमन्त्रिणा सह चर्चा कृता अस्ति तथा मार्च–अप्रैलमासयोः तस्य आगमनस्य सम्भावना वर्तते। सः अवदत् यत् राज्यसरकारया त्रिंशत्कोटिरूप्यकाणां निक्षेपे कृते द्वितीयपरिसरे कार्यारम्भः भविष्यति।

सः अपि उक्तवान् यत् अद्य केवलं साक्षरता न पर्याप्ता, अपि तु शिक्षायाः गुणवत्ता अपि अत्यन्तं महत्त्वपूर्णा अस्ति। राममन्दिरस्य प्राणप्रतिष्ठायाः द्विवर्षपूर्णतायां सः सर्वेभ्यः शुभाशयाः दत्तवान् तथा भारतीयसंस्कृत्या सह सम्बद्धाः भवितुं आह्वानं कृतवान्।

कुलपतिः प्रो. सत् प्रकाश बंसल महोदयः अवदत् यत् देहराकैम्पसस्य भूम्यर्थं विश्वविद्यालयेन २९५ कुटुम्बैः सह संवादं कृत्वा भूमि प्राप्ता अस्ति तथा आगामिकाले देहरायां प्रायः पञ्चाशत् हेक्टेयरपरिमिता अतिरिक्तभूमिः अपि लभ्यते। सः अवदत् यत् जदराङ्गलक्षेत्रे अपि शीघ्रमेव विश्वविद्यालयस्य निर्माणकार्यं आरभ्यते तथा मार्चमासे प्रधानमन्त्रिणा देहराकैम्पसस्य उद्घाटनं सम्भाव्यते। कुलपतिना अपि सूचितं यत् ‘सार्थी-योजना’ अन्तर्गतं विश्वविद्यालयाय पञ्चाशीतिकोटिरूप्यकाणां अनुदानराशिः स्वीकृता अस्ति। तदतिरिक्तं एमबीए, एमसीए, इतिहासः, समाजशास्त्रम् इत्यादिषु पञ्च विषयेषु ऑनलाइन-पाठ्यक्रमाः आरब्धाः सन्ति।

सः अवदत् यत् नवफेब्रुवारीदिनाङ्कात् अन्तरविश्वविद्यालयीयकबड्डीप्रतियोगितायाः आयोजनं भविष्यति तथा षट्पञ्चाशत् पेटेण्ट् विश्वविद्यालयस्य नाम्ना पञ्जीकृतानि सन्ति।

विशिष्टातिथिः प्रो. भोला राम गुर्जर महोदयः अवदत् यत् आत्मनिर्भरभारतस्य विकसितभारतस्य च लक्ष्यप्राप्तये अनुसन्धाने आत्मनिर्भरता अत्यावश्यका अस्ति।

स्थानीयविधायकः सुधीर शर्मा महोदयः अवदत् यत् अयं विश्वविद्यालयः केवलं धर्मशालायै देहरायै च न, अपि तु सम्पूर्णहिमाचलप्रदेशाय अस्ति। सः उत्तरदक्षिणपरिसरयोः सम्बद्धां विवादितस्थितिं विरासतया प्राप्ता चुनौती इति वर्णितवान्।

अस्मिन् अवसरे विश्वविद्यालयकैलेंडर–२०२६, विश्वविद्यालयीयवार्तापत्रम्, ‘यूनिवर्सिटी ए से जेड’, विविधशैक्षणिककेन्द्राणां वार्तापत्राणि तथा विश्वविद्यालयप्रकाशितपुस्तकानां विमोचनं कृतम्। श्रेष्ठशिक्षकः, श्रेष्ठशोधशिक्षकः, श्रेष्ठशिक्षकेतरकर्मचारी च सम्मानिताः अभवन्। हिन्दी-दिवसः, क्रीडास्पर्धाः तथा ललितकलाविभागस्य प्रदर्शनीषु भागं गृहीतवन्तः विद्यार्थिनः अपि सम्मानिताः अभवन्।

एतस्मिन् अवसरे देहरा-धौलाधारपरिसरयोः आयोजितानां क्रीडाप्रतियोगितानां विजेतृभ्यः पुरस्काराः अपि प्रदत्ताः।

हिन्दुस्थान समाचार