Enter your Email Address to subscribe to our newsletters

कोलकाता, 22 जनवरीमासः(हि.स.)। मणिकर्णिका घाट-स्थिते सिद्धपीठे श्री नरसिंह मठ श्रीमद्भागवत-कथायाः सुदामाचरित्रस्य आकर्षकप्रस्तुत्या सह समापनं सम्पन्नम्। व्यासपीठात् व्याकरण-वेदान्ताचार्यः डॉ. अमर चैतन्य महाराज अवदत् यत् माघमासे अल्पस्य अपि पुण्यकर्मणः विशेषं फलम् अवाप्यते। यत्र वृद्धानां अनुभवः यूनां शक्तिश्च समन्वितौ स्तः, तत्र महत्तमं कार्यम् अपि सहजतया सिद्ध्यति। येन सह कश्चन उपकारः कृतः, तस्य कदापि अपकारः न कर्तव्यः इति तेन उपदिष्टम्।
सुदामश्रीकृष्णयोः मध्ये यः प्रेमभावः अस्ति, सः सुलभतया न बोध्यते—एषः जीवनस्य गुह्यतमो रहस्यः। सुदामचरित्रं सरलम् न अस्ति; श्रीकृष्णतत्त्वस्य अवबोधाय बहूनि जन्मानि अपि अपेक्ष्यन्ते इति सः अवदत्। कथायां वैदिकविद्यार्थिभिः बालकैश्च सुदामचरित्राधारिताया लीलायाः मनोहराप्रस्तुतिः अपि कृता।
अस्मिन् अवसरे राष्ट्रिय स्वयंसेवक संघस्य वरिष्ठप्रचारकः चंद्र मोहन, तथा बाबा मच्छोदरानाथ दुर्गोत्सव समितिस्य अध्यक्षः राजेश केसरी सम्मानितौ अभवताम्।
कथासमापनकाले शिवप्रकाशगुप्तः, परशुरामोपाध्यायः, कमलकुमारसिंहः, दीपुजी सोनावाले, अरविन्द अग्रवालः, किशन हरलालका, डॉ. राजवंश जायसवाल, सन्तोषशर्मा इत्यादयः तथा बहवः स्थानीयाः श्रोतारश्च उपस्थिताः आसन्।
हिन्दुस्थान समाचार