रीवाः स्वयंसेवी संस्था अद्य आयोजयिष्यति नि:शुल्कं स्वास्थ्यान्वेषणशिविरम्
रीवा, 22 जनवरीमासः (हि.स.)।मध्यप्रदेशराज्यस्य रीवा नगरे किरण सेवा संस्थान नाम्ना स्वयंसेवीसंस्थया अद्य गुरुवासरे निःशुल्कस्वास्थ्यशिबिरस्य आयोजनं क्रियते। एषः शिबिरः प्रातः ११ वादनात् अपराह्णे ३ वादनपर्यन्तं किरणसेवासंस्थानस्य नेहरू-नगरस्थिते परिसर
भागीरथपुरा क्षेत्र में स्वास्थ्य विभाग ने लगाया मनोचिकित्सकीय परामर्श शिविर


रीवा, 22 जनवरीमासः (हि.स.)।मध्यप्रदेशराज्यस्य रीवा नगरे किरण सेवा संस्थान नाम्ना स्वयंसेवीसंस्थया अद्य गुरुवासरे निःशुल्कस्वास्थ्यशिबिरस्य आयोजनं क्रियते। एषः शिबिरः प्रातः ११ वादनात् अपराह्णे ३ वादनपर्यन्तं किरणसेवासंस्थानस्य नेहरू-नगरस्थिते परिसरॆ आयोजितः भविष्यति।

जनसम्पर्काधिकारी उमेश तिवारी सूचनां दत्त्वा अवदत् यत् अस्मिन् शिबिरे सिकल्-सेल्-अनीमिया रोगसम्बन्धिन्याः जानकारी अपि प्रदास्यते। शिबिरे रक्तचापः, मधुमेहः, हीमोग्लोबिन्-परिमाणम्, सीबीसी, थायराइड्, कोलेस्ट्रॉल् इत्यादीनां परीक्षणं क्रियते।

रोगिभ्यः निःशुल्कं होम्योपैथिक-औषधानां वितरणं अपि भविष्यति। शिबिरे सिकल्-सेल्-रोगस्य परीक्षणस्य अपि व्यवस्था कृता अस्ति। सामान्यजनान् प्रति अपीलः कृतः यत् ते अस्मात् स्वास्थ्यशिबिरात् अधिकतमं लाभं गृह्णन्तु।

हिन्दुस्थान समाचार