एस.एस.सी. द्वारा उच्च-माध्यमिक-शिक्षकाणाम् अन्तिम-मेधा-सूची प्रकाशिता
कोलकातानगरम्, २२ जनवरीमास: (हि.स.)। पश्चिमबङ्गालस्य सहस्रशः शिक्षित-यूनां दीर्घकालं प्रतीक्षितस्य प्रतीक्षायाः अन्तं कुर्वन् विद्यालय-सेवा-आयोगः (एस.एस.सी.) बुधवासरे सायङ्काले उच्च-माध्यमिक-स्तरस्य (एकादशी–द्वादशी कक्षा) अध्यापक-नियुक्तेः अन्तिम-मे
आचार्य सदन


कोलकातानगरम्, २२ जनवरीमास: (हि.स.)। पश्चिमबङ्गालस्य सहस्रशः शिक्षित-यूनां दीर्घकालं प्रतीक्षितस्य प्रतीक्षायाः अन्तं कुर्वन् विद्यालय-सेवा-आयोगः (एस.एस.सी.) बुधवासरे सायङ्काले उच्च-माध्यमिक-स्तरस्य (एकादशी–द्वादशी कक्षा) अध्यापक-नियुक्तेः अन्तिम-मेधा-सूचीम् प्रकाशितवान्। आयोगस्य वक्तव्येन, अस्यां सूच्यां समग्रतः प्रायः १८,९०० अभ्यर्थिनां नामानि अन्तर्भूतानि सन्ति; तेषु १२,४४५ रिक्त-पदेषु अध्यापकानां नियुक्तिः क्रियते। अस्मिन् वर्षे नियुक्ति-प्रक्रियायां पारदर्शितां निर्वहन् आयोगः पैनल-सूचीं, प्रतीक्षा-सूचीं (वेटिङ्ग-लिस्ट्) तथा असफल-अभ्यर्थिनां सूचीम् अपि सार्वजनिकीं कृतवान्। उल्लेखनीयं यत् एकादशी–द्वादशी-श्रेण्यां ३५ विषयेषु समग्रतः १२,४४५ रिक्तयः घोषिताः आसन्।

नियुक्ति-प्रक्रियायाः प्रथम-चरणे १९,९२१ अभ्यर्थिनः आहूताः। अनन्तरं उच्च-न्यायालयस्य निर्देशेन १५६ अन्ये अभ्यर्थिनः अपि प्रमाणपत्र-सत्यापनाय आमन्त्रिताः। एवं समग्रतः २०,०७७ अभ्यर्थिनः प्रक्रियायां सम्मिलिताः। प्रमाणपत्र-सत्यापन-प्रक्रिया १८ नवम्बरमासात् ४ दिसम्बरमासपर्यन्तं प्रचलिता। सत्यापन-काले १,२८७ अभ्यर्थिनां अभ्यर्थित्वं निरस्तं कृतम्। आयोग-सूत्रैः सूचितं यत् आयु-सीमा, जाति-प्रमाणपत्रं तथा शैक्षणिक-योग्यता-सम्बद्धाः विसङ्गतयः तस्य प्रमुख-कारणानि आसन्। तथैव, सर्वोच्च-न्यायालयस्य आदेशानुसार नवमी–दशमी-श्रेणी तथा शिक्षणेतर-कर्मचारि-नियुक्तिषु अनियमितताभिः ‘दोषिण:’ इति परिगणिताः २६९ अभ्यर्थिनः सूचीभ्यः बहिष्कृताः। साक्षात्कारोत्तरं ३०३ अन्येषाम् अपि नामानि अपसारितानि। परामर्श-तिथौ अनिश्चितता अद्य अभ्यर्थिनां मध्ये मुख्यः प्रश्नः—नियुक्त्यर्थं परामर्श-प्रक्रिया कदा आरभ्यते? आयोगस्य वरिष्ठ-अधिकारीणां कथनानुसारं गुरुवासरात् सोमवासरपर्यन्तं राजकीय-अवकाशाः सन्ति; अतः २७ जनवरीमासे, मङ्गलवासरे कार्यालय-उद्घाटनानन्तरमेव परामर्श-तिथीनाम् आधिकारिक-घोषणा सम्भाव्यते। तथापि, विकास-भवन-सूत्राणि सूचयन्ति यत् अग्रिम-विधानसभा-निर्वाचनान् दृष्ट्वा अस्य मासस्य अन्ते एव परामर्श-प्रक्रिया आरब्धुं शक्यते।

पृष्ठभूमौ पुरातन-विवादः

स्मरणीयं यत् एप्रिलमास्य ३ दिनाङ्के सर्वोच्च-न्यायालयस्य आदेशेन राज्ये प्रायः २६,००० अध्यापकानां तथा शिक्षणेतर-कर्मचारिणां नियुक्तयः निरस्तीकृताः आसन्। ततः नूतनतया परीक्षा-चयन-प्रक्रिया आरब्धा। वर्तमान-सूच्याम् अपि विवादाः दृश्यन्ते। केचन अभ्यर्थिनः आरोपयन्ति यत् ‘योग्य’ तथा ‘कार्यरत’ अध्यापकानां अनुभव-आधारिताः १० अङ्काः दत्ताः सन्ति, तथापि अनेके योग्या: अभ्यर्थिनः अन्तिम-सूच्याः बहिः कृताः अथवा प्रतीक्षा-सूच्यां स्थापिता इति।

हिन्दुस्थान समाचार / Dheeraj Maithani