भगतसिंहः कोश्यारी गृहीतवान् देहदान-संकल्पम्
– अद्यावधि ५७० जनाः संकल्पं गृहीतवन्तः देहरादूनम्, २२ जनवरीमासः (हि.स.)। उत्तराखण्डस्य पूर्वमुख्यमन्त्री तथा महाराष्ट्रस्य पूर्वराज्यपालः भगतसिंहः कोश्यारी गुरुवासरे स्वजीवनानन्तरं नेत्रदानं, अंगदानं तथा पूर्णदेहदानस्य संकल्पं गृहीतवान्। एषः संकल्
पूर्व राज्यपाल भगत सिंह।


– अद्यावधि ५७० जनाः संकल्पं गृहीतवन्तः

देहरादूनम्, २२ जनवरीमासः (हि.स.)। उत्तराखण्डस्य पूर्वमुख्यमन्त्री तथा महाराष्ट्रस्य पूर्वराज्यपालः भगतसिंहः कोश्यारी गुरुवासरे स्वजीवनानन्तरं नेत्रदानं, अंगदानं तथा पूर्णदेहदानस्य संकल्पं गृहीतवान्। एषः संकल्पः तेन भव्य-दिव्य-श्रीराममन्दिर-निर्माणस्य द्विवर्ष-पूर्णताया अवसरे गृहीतः, यः आध्यात्मिक-सामाजिक-मानवीय-दृष्ट्या विशेषं महत्त्वं वहति।

भगतसिंहः कोश्यारी एतत् स्व-संकल्पं दधीचि-देहदान-समिति देहरादूनस्य अध्यक्षेन डॉ. मुकेशगोयल-माध्यमेन अद्य स्वस्य देहरादून-स्थिते डिफेन्स्-कालोनी-निवासे विधिवत् पञ्जीकृतवान्। अस्मिन् अवसरे समित्या उक्तं यत् एषः निर्णयः समाजे अंगदान-देहदानयोः जागरूकताम् अधिकं व्यापकां करिष्यति। अपि च एषः तस्य संकल्पः युवानां तथा समाजस्य विभिन्नवर्गाणां कृते प्रेरणास्रोतः भविष्यति तथा देहदान-अंगदान-आन्दोलनं नवां दिशां प्रदास्यति।

अस्मिन् अवसरे कोश्यारी अवदत् यत् एषः संकल्पः भारतीय-संस्कृतेः तस्यां महान् परम्परायां स्मरणं करोति, यत्र व्यक्ति स्वं शरीरं समाजस्य राष्ट्रस्य च सेवायै समर्पयति। महर्षेः दधीचेः परम्परया प्रेरितः अयं उपक्रमः केवलं चिकित्सा-शिक्षा-शोध-क्षेत्रेषु उपयोगी न भविष्यति, अपि तु नेत्रदान-अंगदानयोः माध्यमेन अनेकानाम् आवश्यकतायुक्तानां जनानां नूतनं जीवनं, नूतनां दृष्टिं तथा आशां प्रदास्यति।

दधीचि-देहदान-समित्या सर्वेभ्यः नागरिकेभ्यः उद्घोषणा कृता यत् तेऽपि नेत्रदानं, अंगदानं तथा देहदानस्य संकल्पं गृह्णीयुः तथा मरणोत्तरं समाज-राष्ट्र-सेवायां योगदानं दद्यु:। समित्या ज्ञापितं यत् अद्यावधि ५७० जनाः संकल्पं गृहीतवन्तः तथा २१ देहदानानि एवं ४७ जनानां ९४ कर्णिकाः दानरूपेण प्रदत्ताः सन्ति। इच्छुकाः नागरिकाः समित्या सह सम्पर्कं कर्तुं शक्नुवन्ति।

हिन्दुस्थान समाचार