मुख्यमन्त्रिणा नेताजी इत्यस्य भावपूर्णं स्मरणं कृतम्
देहरादूनम्, २२ जनवरीमासः (हि.स.)। मुख्यमन्त्री पुष्करः सिंहः धामी नेताजी सुभाषचन्द्रबोसस्य जयन्त्याः पूर्वसन्ध्यायां तस्य भावपूर्णं स्मरणं कृत्वा अवदत् यत् नेताजी भारतस्य महान् अग्रणीश्च स्वतन्त्रता-संग्रामयोद्धानां मध्ये एकः आसीत्। स्वस्य अद्वितीय
मुख्यमंत्री पुष्कर सिंह धामी


देहरादूनम्, २२ जनवरीमासः (हि.स.)। मुख्यमन्त्री पुष्करः सिंहः धामी नेताजी सुभाषचन्द्रबोसस्य जयन्त्याः पूर्वसन्ध्यायां तस्य भावपूर्णं स्मरणं कृत्वा अवदत् यत् नेताजी भारतस्य महान् अग्रणीश्च स्वतन्त्रता-संग्रामयोद्धानां मध्ये एकः आसीत्। स्वस्य अद्वितीय-नेतृत्वस्य साहसस्य च बलेन सः देशस्य स्वातन्त्र्य-आन्दोलनं नवां दिशां नूतनाम् ऊर्जां च प्रदत्तवान्।

मुख्यमन्त्री अवदत् यत् आजाद-हिन्द-सेनायाः संस्थापकः सेनानायकश्च नेताजी सुभाषचन्द्रबोसः कोटि-कोटि-युवानां कृते प्रेरणास्रोतः आसीत्। राष्ट्रस्य स्वातन्त्र्यार्थं नेताजी द्वारा कृतः संघर्षः, त्यागः तथा तस्य अतुलनीयः योगदानः सदा स्मरणीयः भविष्यति इति सः अवदत्। नेताजी सुभाषचन्द्रबोसस्य जीवनं राष्ट्रभक्तेः, नेतृत्व-क्षमतायाः तथा अदम्य-साहसस्य प्रतीकम् अस्ति, यत् आगामि-सन्ततिन् निरन्तरं प्रेरयिष्यति।

हिन्दुस्थान समाचार