मुख्य सचिवः आनंद बर्धनः अकरोत्स्वामिना अवधेशानंद गिरिणा सह शिष्टाचारमेलनमकरोत्
हरिद्वारम्, 22 जनवरीमासः (हि.स.)। उत्तराखण्डराज्यस्य मुख्यसचिवः आनन्द बर्धन महोदयः गुरुवासरे श्रीपञ्चदशनामजूनाअखाडस्य कनखलस्थितं आचार्यपीठं श्रीहरिहराश्रमं प्राप्तवान् तथा जूनापीठाधीश्वरं स्वामी अवधेशानन्दगिरिणं शिष्टाचारमेलनेन अभिवन्दितवान्। हर
स्वामी अवधेशानंद से भेंट करते मुख्य सचिव


हरिद्वारम्, 22 जनवरीमासः (हि.स.)।

उत्तराखण्डराज्यस्य मुख्यसचिवः आनन्द बर्धन महोदयः गुरुवासरे श्रीपञ्चदशनामजूनाअखाडस्य कनखलस्थितं आचार्यपीठं श्रीहरिहराश्रमं प्राप्तवान् तथा जूनापीठाधीश्वरं स्वामी अवधेशानन्दगिरिणं शिष्टाचारमेलनेन अभिवन्दितवान्।

हरिहराश्रमात् निर्गतायां विज्ञप्तौ अवगतं कृतं यत् भारतीयप्रशासनिकसेवायाः वरिष्ठः अधिकारी उत्तराखण्डशासनस्य मुख्यसचिवः आनन्द बर्धन महोदयः स्वामीजीं द्रष्टुं आश्रमं आगतवान्। अस्मिनवसरे स्वामिना अवधेशानन्दगिरिणा आनन्द बर्धनेन च सह अध्यात्मसम्बद्धेषु राष्ट्रोत्थानसम्बद्धेषु लोककल्याणसम्बद्धेषु च विषयेषु सारगर्भितः संवादः अभवत्। स्वामी अवधेशानन्दगिरिणा आनन्द बर्धनाय स्वरचितपुस्तकानि अपि उपहाररूपेण प्रदत्तानि।

---------------

हिन्दुस्थान समाचार