Enter your Email Address to subscribe to our newsletters

औरैयाजनपद:, २३ जनवरीमासः (हि.स.)। उत्तर–प्रदेश–राज्यस्य औरैया–जनपदे स्वातन्त्र्यनायकस्य नेता–सुभाषचन्द्र–बोसस्य जयन्ती शुक्रवासरे श्रद्धा–उत्साहाभ्यां सह आचरिता। सुभाष–विचार–मञ्चस्य तत्वावधानं कुर्वन्तः नगरस्य सुभाष–चतुष्पथे आयोजिते कार्यक्रमे जनपदाधिकारी डॉ.इन्द्रमणि–त्रिपाठी, नगर–पालिका–अध्यक्षः अनूप–गुप्ता इत्येताभ्यां सह मञ्चस्य पदाधिकारिण: तथा सदस्याः नेतासुभाषस्य प्रतिमायां माल्यार्पणं कृत्वा श्रद्धांजलिम् अर्पितवन्तः।
कार्यक्रमस्थलम् “नेताजी–सुभाषचन्द्र–बोस–जिंदाबाद” नाराभिः गूञ्जितम्।
जनपदाधिकारी डॉ.इन्द्रमणि–त्रिपाठी कार्यक्रमे अवदत् यत् नेता–सुभाषचन्द्र–बोसस्य त्यागः बलिदानञ्च देशस्य इतिहासे स्वर्णाक्षरै: अंकितम् अस्ति। आजाद–हिंद–दलं संस्थाप्य सः स्वतंत्रता–संग्रामाय नूतन–दिशं नूतन–ऊर्जां च प्रदत्तवान्। कार्यक्रमे राष्ट्रभक्त्याः वातावरणं सृष्टम् आसीत् तथा नेतासुभाषस्य विचारान् आत्मसात्कर्तुं संकल्पः कृतः।
अस्मिन् अवसरे नगर–पालिका–अध्यक्षः अनूप–गुप्ता, सुभाष–विचार–मञ्च–संस्थापकः आनंद–कुशवाहा, संरक्षकः प्रवीण–गुप्ता, विवेक–पोरवाल, अध्यक्षः सुनील–गुप्ता, शहीद–स्मारक–समिति–अध्यक्षः बृजकिशोर–पाण्डेय:, काँग्रेस–नगर–अध्यक्षः कृष्णचन्द्र–गोयल:, जनपद–उपाध्यक्षः दिलीप–तिवारी, पूर्व–सभासदः अमरपाल–सिंह–भदौरिया, ओंकार–अग्निहोत्री, रामू–पाठक:, संदीप–चक:, इंदर–सिंह:, अरविंद–बाजपेई, राम–आसरे–गुप्ता इत्येतै: सह बहवः गणमान्य–नागरिकाः उपस्थिताः, ते नेतु: प्रतिमायां माल्यार्पणं कृत्वा श्रद्धांजलिम् अर्पितवन्तः।
हिन्दुस्थान समाचार / Dheeraj Maithani