अमितशाहः 30 जनवरी तमे दिनाङ्के डिब्रूगढ़म्आगमिष्यति, मुख्यमंत्री अकरोत् बहूनां योजनानां घोषणाम्
गुवाहाटी, 23 जनवरीमासः (हि.स.)। केन्द्रीयगृहमन्त्री अमितशाहः जनवरीमासस्य त्रिंशत्तमे दिने डिब्रूगढ़् नगरम् आगमिष्यति। तत्र सः असम-विधानसभायाः द्वितीय-परिसरस्य शिलान्यासं करिष्यति। असम-राज्यस्य मुख्यमन्त्री डॉ. हिमन्तविश्वसरमाः फेसबुक्-लाइव्-माध्य
अमित शाह


गुवाहाटी, 23 जनवरीमासः (हि.स.)।

केन्द्रीयगृहमन्त्री अमितशाहः जनवरीमासस्य त्रिंशत्तमे दिने डिब्रूगढ़् नगरम् आगमिष्यति। तत्र सः असम-विधानसभायाः द्वितीय-परिसरस्य शिलान्यासं करिष्यति। असम-राज्यस्य मुख्यमन्त्री डॉ. हिमन्तविश्वसरमाः फेसबुक्-लाइव्-माध्यमेन एतां सूचनां दत्तवान्, तथा च राज्ये आगामि कार्यक्रमान्, नियुक्तीन्, निवेशसम्बद्धाश्च अनेकाः महत्त्वपूर्णाः घोषणाः अकरोत्।

मुख्यमन्त्री अवदत् यत् राज्यसरकारः फरवरीमासस्य एकादशमे वा द्वादशमे दिने द्विसहस्रं युवकयुवतीनां नूतन-नियुक्तिपत्राणि समर्पयिष्यति। अपि च जनवरीमासस्य चतुर्विंशतितमे दिने मुख्यमन्त्री बाक्सा नगरं गमिष्यति, यत्र सः मुख्यमन्त्री-महिला-उद्यमिता-योजनायाः अन्तर्गतं चेक्-वितरण-कार्यक्रमे भागं ग्रहीष्यति।

जनवरीमासस्य पञ्चविंशतितमे दिने दुमदुमा-स्थाने ‘एति कोली दुटी पात’ इति योजनायाः उद्घाटनं भविष्यति। अस्यां योजनायां राज्यसरकारेण चाय-बागानानां स्थायी-अस्थायी-श्रमिकेभ्यः पञ्चसहस्र-रूप्यकाणां आर्थिक-सहायता प्रदीयते।

जनवरीमासस्य षड्विंशतितमे दिने मुख्यमन्त्री द्वितीयवारं डिब्रूगढ़् नगरे गणतन्त्रदिवसस्य अवसर पर राष्ट्रियध्वजं आरोहयिष्यति।

मुख्यमन्त्री अवदत् यत् फरवरीमासस्य सप्तमे दिने गुवाहाटी-नगरे ‘मुख्यमन्त्री आत्मनिर्भर असम अभियानः’ उद्घाटितः भविष्यति। अस्याः योजनायाः अन्तर्गतं पञ्चसप्तति-सहस्रं युवकेभ्यः स्वरोजगाराय प्रत्येकं द्विलक्ष-रूप्यकाणां सहायता प्रदीयते।

डॉ. सरमा अपि अवदत् यत् स्विट्ज़रलैण्ड्-देशस्य दावोस-नगरे आयोजिते विश्व-आर्थिक-मञ्चे विविधैः अग्रणी-अन्ताराष्ट्रिय-कम्पनीभिः सह सम्पन्नासु उपवेशनेषु अनन्तरं असम-राज्याय प्रायः नवतिसहस्र-कोटि-रूप्यकाणां निवेश-प्रस्तावः प्राप्तः अस्ति। अनेकाः वैश्विक-कम्पन्यः असम-राज्ये निवेशे रुचिं प्रदर्शितवन्त्यः।

मुख्यमन्त्री अवदत् यत् राज्यसर्वकारः जीविका-सृजनम्, सामाजिक-कल्याणम्, निवेशं च माध्यमीकृत्य असम-राज्यस्य समग्र-विकासाय दृढसंकल्पिता अस्ति।

हिन्दुस्थान समाचार