सुभाषचंद्र बोस आवासीय विद्यालये नेताजये डीसी अथ एसपी इत्याभ्यां कृतं नमनम्
रांची, 23 जनवरीमासः (हि.स.)। नेताजेः सुभाषचन्द्रबोसस्य जयन्त्यवसरे बरियातु-स्थाने स्थिते नेताजीसुभाषचन्द्रबोस-आवासीयविद्यालये श्रद्धया प्रेरणया च युक्तः कार्यक्रमः आयोजितः। अस्मिन् कार्यक्रमे मुख्यातिथिरूपेण उपायुक्तः मंजूनाथ-भजन्त्री महोदयः तथा
नेताजी सुभाषचंद्र बोस को श्रद्धांजलि देते डीसी एसपी सहित अन्य


रांची, 23 जनवरीमासः (हि.स.)।

नेताजेः सुभाषचन्द्रबोसस्य जयन्त्यवसरे बरियातु-स्थाने स्थिते नेताजीसुभाषचन्द्रबोस-आवासीयविद्यालये श्रद्धया प्रेरणया च युक्तः कार्यक्रमः आयोजितः। अस्मिन् कार्यक्रमे मुख्यातिथिरूपेण उपायुक्तः मंजूनाथ-भजन्त्री महोदयः तथा वरिष्ठ-पुलिस-अधीक्षकः राकेश-रंजन महोदयश्च उपस्थितौ आस्ताम्। अस्मिन् अवसरे उभाभ्यां मां सरस्वतीं पूजयित्वा विद्यार्थिनां उज्ज्वलभविष्यस्य कामना कृता, नेताजीस्य चित्रे पुष्पाणि अर्पयित्वा श्रद्धाञ्जलिश्च समर्पिता।

उपायुक्तः भजन्त्री महोदयः नेताजी सुभाषचन्द्रबोसस्य दृढं प्रेरणादायकं च व्यक्तित्वं प्रकाशयन् अवदत् यत् तस्य जीवनं राष्ट्रसेवाया अनुशासनस्य संघर्षस्य च उत्कृष्टं उदाहरणम् अस्ति। तेन छात्रजीवने इच्छाशक्तेः अनुशासनस्य संघर्षस्य च महत्त्वं विशेषेण निरूपितम्। कार्यक्रमावसरे उपायुक्तेन विद्यालयस्य छात्रावासस्य निरीक्षणं कृत्वा रसोईगृहं आवासीयकक्षाः स्नानागाराणि अन्याः सुविधाश्च समीक्षिताः, छात्रावासस्य समग्र-उन्नयनाय आवश्यकाः निर्देशाश्च दत्ताः। तेन अवदत् यत् विद्यालये अध्ययनरताः ये बालकाः बालिकाश्च मातापितृविहीनाः सन्ति, ते आत्मानं एकाकिनं न मन्येरन्, यतः शिक्षकाः एव तेषां अभिभावकाः सन्ति।

अस्मिन्नेव अवसरे जिला-प्रशासनस्य परतया विद्यालयाय वाद्ययन्त्राण्यपि उपलब्धीकृतानि। कार्यक्रमे विद्यार्थिभिः सांस्कृतिकाः प्रस्तुतयः प्रदर्शिताः।

तत्र वरिष्ठ-पुलिस-अधीक्षकः राकेश-रंजन महोदयः अवदत् यत् संसाधनानां अभावेऽपि यदि मनुष्यस्य इच्छाशक्तिः प्रबला भवति, तर्हि सः सर्वान् लक्ष्यांश्च प्राप्तुं शक्नोति। तेन उक्तं यत् सर्वे छात्राः अपि स्वमेहनत्या स्वं मुकाम् अवश्यं प्राप्स्यन्ति। अस्मिन् अवसरे बहुसंख्यायां छात्राः छात्र्यश्च अन्ये च जनाः उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार