Enter your Email Address to subscribe to our newsletters

भोपालम्, 23 जनवरीमासः (हि.स.)। केन्द्रीयस्वास्थ्यपरिवारकल्याणमन्त्री जे पी नड्डा अद्य शुक्रवासरे मध्यप्रदेशस्य प्रवासे जबलपुरनगरे मुख्यमन्त्रिणा डा मोहनयादवेन सह विविधेषु सार्वजनिककार्यक्रमेषु भागं ग्रहिष्यति।
केन्द्रीयमन्त्री नड्डा गुरुवासरे सायङ्काले एव जबलपुरनगरे आगतवान्। डुमनाविमानतले तस्य भव्यं स्वागतं कृतम्। ततः सः लोकनिर्माणमन्त्री राकेशसिंहस्य सिविललाइन्स् क्षेत्रे स्थितं निवासं गतवान्, यत्र सः जनप्रतिनिधिभिः वरिष्ठैः जनैः जिलापदाधिकारिभिः मण्डलाध्यक्षैः पार्षदैश्च सह भेंटां कृतवान्।
जनसम्पर्काधिकारी अशोकमनवानी अवदत् यत् मुख्यमन्त्री डा मोहनयादवः स्विट्जरलैण्डदेशस्य दावोस्नगरे आयोजिते विश्वआर्थिकमञ्चे (वर्ल्ड इकोनॉमिक फोरम) तदनुबद्धेषु च कार्यक्रमेषु भागं गृहीत्वा अद्य स्वदेशं प्रत्यागमिष्यति। सः नयीदिल्लीनगरात् विमानेन पूर्वाह्णकाले जबलपुरनगरं प्राप्स्यति। मुख्यमन्त्री डा यादवः जबलपुरे केन्द्रीयमन्त्रिणा जे पी नड्डेन सह सिद्धिबालाबोसपुस्तकालयसंघस्य शताब्दीवर्षसमापनसमारोहं तथा मुख्यमन्त्रीकन्याविवाहनिकाहयोजनाया कार्यक्रमं च समन्विष्य भागं ग्रहिष्यति।
तत्पश्चात् केन्द्रीयमन्त्री नड्डा अपराह्णे त्रिवादने उजापुरवा बलदेबबागस्थितं जलमन्दिरं अवलोकयितुं गमिष्यति। अनन्तरं सः सायं षड्वादन पञ्चदशमिनिटेषु (6:15 वादने) ग्वारीघाटनगरे आगमिष्यति तथा मुख्यमन्त्रीणा डा यादवेन सह मातुः नर्मदाया महाआरतीकार्यक्रमे श्रीदादागुरोः प्रकटोत्सवे च अन्येषु कार्यक्रमेषु अपि भागं करिष्यति। जबलपुरनगरे मुख्यमन्त्री डा यादवस्य विविधैः औद्योगिकव्यापारिकसंघटनैः स्वागतं अपि भविष्यति।
हिन्दुस्थान समाचार