'नेताजी' सुभाष चंद्र बोसश्च स्वातंत्र्यस्य युद्धाय एकां नूतनां दिशमददात् : मुख्यमंत्री
मुख्यमंत्री परिर्वतनचतुष्पथि स्थितस्य नेताजेः प्रतिमायाम् अर्पितवान् पुष्पांजलिम् लखनऊ ,23 जनवरीमासः (हि.स.)। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः शुक्रवासरे ‘नेताजी’ सुभाषचन्द्रबोसस्य जन्मजयन्त्यां लखनऊ-नगरे आयोजिते कार्यक्रमे तस्य प्रति
नेताजी सुभाषचन्द्र बोस की प्रतिमा पर पुष्पांजलि करते मुख्यमंत्री योगी आदित्यनाथ


मुख्यमंत्री परिर्वतनचतुष्पथि स्थितस्य नेताजेः प्रतिमायाम् अर्पितवान् पुष्पांजलिम्

लखनऊ ,23 जनवरीमासः (हि.स.)। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः शुक्रवासरे ‘नेताजी’ सुभाषचन्द्रबोसस्य जन्मजयन्त्यां लखनऊ-नगरे आयोजिते कार्यक्रमे तस्य प्रतिमायां पुष्पाणि अर्पयित्वा श्रद्धाञ्जलिं अकरोत्। अस्मिन् अवसरे मुख्यमन्त्री योगी अवदत् यत् भारतस्य क्रान्तिकारिणां शिरोमणिरूपेण नेताजी सुभाषचन्द्रबोसः स्वातन्त्र्यसंग्रामाय नूतनां दिशां दत्तवान्। तस्य विशालं व्यक्तित्वं प्रत्येकं भारतीयं प्रभावयति।

नेताज्याः जन्मजयन्त्यां मुख्यमन्त्री योगी प्रातःकाले नगरस्य परिवर्तन-चौकं गत्वा नेताजी-सुभाषचन्द्रबोसस्य प्रतिमायां पुष्पार्पणं कृत्वा श्रद्धाञ्जलिं समर्पितवान्। तत्र आयोजिते कार्यक्रमे सः अवदत् यत् “मम रक्तं दत्त, अहं युवां स्वातन्त्र्यं दास्यामि” इति नेताज्याः घोषः स्वातन्त्र्यस्य मन्त्रः अभवत्। तस्य “दिल्ली चलो” इति उद्घोषः प्रत्येकं भारतीयं प्रेरयति। जर्मनी-जापानयोः गत्वा येन प्रकारेण सः नेतृत्वं कृतवान्, तत् सर्वेषां भारतीयानां कृते स्मरणीयम् अस्ति।

योगी अवदत् यत् नेताजी सुभाषचन्द्रबोसः आईसीएस् परीक्षायां सर्वोच्चं स्थानं प्राप्य अपि आङ्ग्लसेवां कर्तुं अस्वीकारं कृतवान् तथा भारतस्य स्वाधीनता-आन्दोलनं प्रविष्टवान्। क्रान्तिकारिणां शिरोमणिरूपेण नेताजी स्वातन्त्र्य-आन्दोलनाय नूतनां दिशां प्रदत्तवान्।

मुख्यमन्त्री अवदत् यत् नेताजी सुभाषचन्द्रबोसः भारतस्य स्वातन्त्र्यस्य एतादृशं नाम अस्ति, यस्य स्मरणेन तस्य विराटं व्यक्तित्वं कृतित्वं च प्रत्येकस्य भारतीयस्य सम्मुखे प्रकटं भवति। यदा वयं नेताज्याः नाम स्मरामः, तदा प्रत्येकस्य भारतीयस्य हृदये श्रद्धा-सम्मान-सहितं ओजः, तेजः तथा अत्यन्तविपरीतासु परिस्थितिषु अपि राष्ट्रविरोधी-शक्तीनां समक्षं न नमनं कर्तुं दृढः संकल्पः दृश्यते।

अस्मिन् अवसरे उपमुख्यमन्त्री ब्रजेशपाठकः, लखनऊ-नगरस्य महापौरः सुषमा-खर्कवालः, विधानपरिषद्सदस्यौ अवनीशकुमारसिंहः, अङ्गदसिंहः, विधायकः डॉ. नीरजबोरा, तथा महानगर-अध्यक्षः आनन्दद्विवेदी च उपस्थिताः आसन्।

हिन्दुस्थान समाचार