Enter your Email Address to subscribe to our newsletters

लखनऊनगरम्, २३ जनवरीमासः २०२६ (हि.स.)। उत्तर–प्रदेशस्य राज्यपाल: आनन्दीबेन–पटेलेन उत्तर–प्रदेश–स्थापना–दिवसस्य अवसरे समस्तप्रदेशवासिभ्यः तथा देशवासिभ्यः हार्दिकम् अभिनन्दनं तथा शुभकामनाः प्रेषिता:। सा सर्वेषां सुख–समृद्धि–सतत–प्रगतिकामनाम् अपि कृतवती।
राज्यपालमहोदयया शुभकामना–सन्देशे शुक्रवासरे उक्तम् यत् गङ्गा–यमुना–पुण्यधाराभि: सिंचितः, सांस्कृतिक–वैभवेन समृद्धः, ऐतिहासिक–गौरवेन दीप्तः उत्तर–प्रदेशः भारतस्य आत्मनः उज्ज्वलः जीवन्तः च प्रतिबिम्बः अस्ति। एषा पुण्यभूमिः यत्र ऋषि–मुनिनां साधनया चेतना दिक् प्राप्ता, सन्तानां करुणया मानवता संस्कारिता, वीराणां शौर्येण स्वाभिमानं दृढीकृतं तथा जन–जनस्य श्रम–परिश्रमेण राष्ट्र–निर्माणस्य आधार: सशक्त: कृत:।
राज्यपालमहोदया कामनां कृतवती यत् उत्तर–प्रदेशः निरन्तरं प्रगति–नवाचार–लोककल्याणपथेषु अग्रसरः भवेत्, देशस्य उन्नतौ स्वस्य अग्रणीं भूमिकां निर्वहतु।
हिन्दुस्थान समाचार / अंशु गुप्ता