श्री काशी विश्वनाथ धाम्नि मां सरस्वत्याः वैदिक मत्रोच्चारस्य मध्ये आराधना
वाराणसी, 23 जनवरीमासः (हि.स.)। वसन्तपञ्चमीपर्वणि शुक्रवासरे उत्तरप्रदेशस्य वाराणसीनगरे स्थिते श्रीकाशीविश्वनाथमन्दिरे वैदिकमन्त्राणां घोषेण सह माता सरस्वत्याः आराधना विधिपूर्वकं सम्पादिता। श्रीकाशीविश्वनाथधामपरिसरे स्थितायाः विद्यासङ्गीतयोः अधिष्
मां सरस्वती की आराधना करते काशी विश्वनाथ मंदिर के डिप्टी कलेक्टर


वाराणसी, 23 जनवरीमासः (हि.स.)।

वसन्तपञ्चमीपर्वणि शुक्रवासरे उत्तरप्रदेशस्य वाराणसीनगरे स्थिते श्रीकाशीविश्वनाथमन्दिरे वैदिकमन्त्राणां घोषेण सह माता सरस्वत्याः आराधना विधिपूर्वकं सम्पादिता। श्रीकाशीविश्वनाथधामपरिसरे स्थितायाः विद्यासङ्गीतयोः अधिष्ठात्रीदेव्याः माता सरस्वत्याः विधिविधानपूर्वकायां पूजायां सम्पूर्णः परिसरः भक्तिमयेन वातावरणेन परिपूर्णः आसीत्।

मन्दिरन्यासस्य प्रतिनिधित्वं कुर्वन् मन्दिरस्य उपसंग्राहकः वैदिकमन्त्रौच्चारणेन सह पूजनार्चनं अकरोत्। पूजायाः अनन्तरं माता सरस्वत्याः समीपे विद्यानां विवेकस्य वाण्याः कलानां च समृद्धये प्रार्थना कृता।

वसन्तपञ्चमीपर्वावसरे धामं प्राप्तेषु श्रद्धालुषु विशेषः उत्साहः दृष्टः। श्रद्धालवः अपि माता सरस्वत्याः चरणयोः पुष्पाणि समर्प्य आशीर्वादं प्राप्तवन्तः।

सरस्वतीमन्दिरन्यासस्य अनुसारं माता सरस्वत्याः पूजनस्य माध्यमेन भारतीयज्ञानपरम्परायाः सांस्कृतिकमूल्यानां च संरक्षणस्य सन्देशः प्रदत्तः।

---------------

हिन्दुस्थान समाचार