Enter your Email Address to subscribe to our newsletters

लखनऊ, 23 जनवरीमासः (हि.स.) उत्तर प्रदेशस्य उपमुख्यमंत्री श्री केशवप्रसादमौर्यः अद्य वसन्तपञ्चमीपावनस्नानपर्वणि प्रदेशवासिनः सह तीर्थराजप्रयागराजस्य पुण्यधरण्यां श्रद्धा-भक्त्योः भव्ये महासंगमे समागतान् समस्तान् पूज्यसाधुसन्तान् श्रद्धालून् कल्पवासिनश्च हार्दिकाः वर्धापनानि शुभाशयांश्च प्रेषितवान्।
उपमुख्यमन्त्रिणः शिविरकार्यालयात् निर्गते शुभाशयविज्ञप्तौ श्री केशवप्रसादमौर्यः अवदत् यत् वसन्तपञ्चमीपर्व भारतीयसंस्कृतेः ज्ञानस्य साधनायाः आध्यात्मिकचेतनायाश्च प्रतीकम् अस्ति। एषः पर्व माता सरस्वत्याः उपासनायाः विशेषः अवसरः अस्ति या ज्ञानं विवेकं सद्बुद्धिं च ददाति।
तीर्थराजप्रयागराजे माता गङ्गायाः माता यमुनायाः माता सरस्वत्याश्च पावनायां त्रिवेण्यां स्नानं कृत्वा श्रद्धालवः आध्यात्मिकशक्तेः आत्मिकशान्तेश्च अनुभवम् कुर्वन्ति। सः अवदत् यत् पावनस्नानपर्व समाजे सद्भावस्य एकतायाः आध्यात्मिकचेतनायाश्च संवर्धनं करोति।
अस्मिन् दिव्ये अवसरे देशविदेशेभ्यः आगताः श्रद्धालवः साधुसन्ताश्च कल्पवासिनश्च सनातनसंस्कृतेः महान् परम्पराः सजीवरूपेण प्रदर्शयन्ति।
श्री केशवप्रसादमौर्यः कामनाम् अकरोत् यत् माता गङ्गायाः माता यमुनायाः माता सरस्वत्याश्च असीमया कृपया एषः शुभः अवसरः सर्वेषां जीवने ज्ञानस्य शान्तेः सुखस्य समृद्धेः सकारात्मकशक्तेः च संचारं करोतु तथा प्रदेशः देशश्च निरन्तरं प्रगतिपथे अग्रसरौ भवेताम्।
----------------------
हिन्दुस्थान समाचार