Enter your Email Address to subscribe to our newsletters

मुरादाबादनगरम्, २३ जनवरीमासः (हि.स.)। उत्तर–रेल्वे–मुरादाबाद–रेल–मण्डले वरिष्ठ–मण्डल–वाणिज्य–प्रबन्धक: आदित्य–गुप्तः शुक्रवासरे अवदत् यत् यात्रिणां सुविधायै रेलयान–संख्या ०४३६०/०४३५९ योगनगरी–ऋषिकेश–एर्नाकुलम–जंक्शन–योगनगरी ऋषिकेश परिचालनं ३० जनवरीमासे तथा ३ फरवरीमासे च कर्तुं निर्धारितम्। एते उभे रेलयाने सकृत् संचरिष्यत:। एतयो: वातानुकूलित-शयन-सामान्य–कक्षा: उपलब्धाः भविष्यन्ति।
वरिष्ठ–डी.सी.एम अवदत् यत् रेलयान–संख्या ०४३६० योगनगरी–ऋषिकेशात् ३० जनवरीमासे प्रातः ७ वादने प्रस्थानं करिष्यति। एतत् यानं विभिन्न–संस्थात्राणि व्याप्य अग्रिमे दिने रात्रौ ११:३० वादने एर्नाकुलम–संस्थात्रं प्राप्स्यति।
प्रत्यावर्तन–मार्गे रेलयान–संख्या ०४३५९ एर्नाकुलम–संस्थात्रात् ३ फरवरीमासे रात्रौ ११ वादने प्रस्थानं करिष्यति। विभिन्न–संस्थात्राणि व्याप्य एतत् अग्रिमे दिने सायं ४:१५ वादने योगनगरी–ऋषिकेशं प्राप्स्यति।
हिन्दुस्थान समाचार / Dheeraj Maithani