भारतीयजनतिपक्षं पराजेतुं ‘जिहादः’ आरब्धः अस्ति — मुख्यमन्त्री
नलबाडीनगरम् (असमप्रदेश:), २४ जनवरीमासः (हि.स.) असमराज्यस्य मुख्यमन्त्री डॉ.हिमन्त–बिस्व–सर्मा शनिवासरे काङ्ग्रेस–दलं तस्य नेतॄण: च प्रति तीव्रं प्रहारं कृत्वा आरोपं कृतवान् यत् भाजपापक्षं सत्तातः अपसारयितुं ‘मिया–तत्त्वैः’ सङ्घटितः “जिहादः” अधुना आ
Assam CM Dr Himanta Biswa Sarma addressing a press conference. मुख्यमंत्री डॉ हिमंत बिस्व सरमा


नलबाडीनगरम् (असमप्रदेश:), २४ जनवरीमासः (हि.स.) असमराज्यस्य मुख्यमन्त्री डॉ.हिमन्त–बिस्व–सर्मा शनिवासरे काङ्ग्रेस–दलं तस्य नेतॄण: च प्रति तीव्रं प्रहारं कृत्वा आरोपं कृतवान् यत् भाजपापक्षं सत्तातः अपसारयितुं ‘मिया–तत्त्वैः’ सङ्घटितः “जिहादः” अधुना आरब्धः अस्ति।

बरखेेत्री–क्षेत्रे महिला–उद्यमिता–योजनान्तर्गत–वस्तु–वितरण–कार्यक्रमे सहभागित्वानन्तरं पत्रकारैः सह संवादकाले मुख्यमन्त्री अवदत्—अधुना राजीव–भवनस्य वातावरणं मस्जिदे नमाज–पाठवत् अभवत्, यत् काङ्ग्रेस–दले विशेष–समुदायस्य वर्धमानं प्रभावं दर्शयति।

मुख्यमन्त्री उक्तवान् यत् काङ्ग्रेस–चिटिकायै आवेदनं कृतवतां प्रायः ७०० जनानां मध्ये ६०० जनाः मिया–समुदायात् सन्ति। तेन आरोपितं यत् अभ्यर्थी–नाम्ना प्रत्येकं मिया–अभ्यर्थी काङ्ग्रेस–दले ५० सहस्र–रूप्यकाणि ददाति।

डॉ.हिमन्त–बिस्व–सर्मा संचेतनां दत्तवान् यत् यदि असमे काङ्ग्रेस–सर्वकारः भविष्यति, तर्हि शपथ–ग्रहण–दिने एव लक्षशः मुस्लिमजना: गुवाहाटी–नगरे एकत्रिता: भविष्यन्ति। तेन आरोपितं यत् काङ्ग्रेस–सांसदः गौरव–गोगोई तथा रायजर–दलस्य नेता अखिल–गोगोई असमे “मिया–साम्राज्यं” स्थापयितुं स्वप्नं पश्यतः।

मुख्यमन्त्री आरोपं कृतवान् यत् गौरव–गोगोई-इत्यस्य पाकिस्तानस्य अभिकर्तृभिः सह सम्बन्धाः सन्ति, अत एव मिया–समुदायस्य जनाः भाजप–सर्वकारस्य अपसारणाय पूर्ण–शक्तिं नियोजयन्ति।

अखिल–गोगोई-इत्यस्य साम्प्रतिक–टिप्पण्याः उल्लेखं कृत्वा मुख्यमन्त्री अवदत्—यदि पञ्च–वर्षपर्यन्तं गृह–विभागस्य संचालनाय अवसरः दीयते तथा मिया–जनानां कृते भय–रहितम् असमं दास्यामीति कथ्यते, तर्हि तेन तस्य अभिप्रायाः स्पष्टाः भवन्ति। तेन उक्तं यत् यदि काङ्ग्रेस–दलम् अथवा अखिल–गोगोई सत्तायाम् आगच्छेत्, तर्हि असमे मिया–राज्यं स्थापितं भविष्यति, असमिया–जनानां च अस्तित्वं संकटे पतिष्यति।

अन्ते मुख्यमन्त्री डॉ.हिमन्त–बिस्व–सर्मा पुनः उक्तवान् यत् भाजप–सर्वकारः असम–अस्मितायाः रक्षणाय तथा राज्ये विधि–व्यवस्थायाः पालनाय पूर्णतया प्रतिबद्धः अस्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता