Enter your Email Address to subscribe to our newsletters

पटनानगरम्, २४ जनवरीमासः (हि.स.)। बिहार–राज्ये सर्वेषु क्षेत्रेषु तीव्रगत्या विकासः प्रवर्तते, राज्ये सुदृढतायाः आधारभूत–संरचनायाः निर्माणं च सर्वकारस्य प्रमुखं लक्ष्यम् अस्ति। विकास–योजनाः समाजस्य सर्ववर्गान् दृष्ट्वा कार्यान्विताः क्रियन्ते—इति मुख्यमंत्री नीतीशकुमारः शनिवासरे वैशाली–जनपदस्य पानापुर–बटेश्वरनाथ–धाम–परिसरे आयोजिते जनसंवाद–कार्यक्रमे सम्बोधने अवदत्।
मुख्यमन्त्री अवदत् यत् सर्वकारेण स्वकार्यकालस्य आरम्भात् एव शिक्षा–स्वास्थ्य–क्षेत्रयोः सर्वोच्चा प्राथमिकता दत्ता। राज्यव्यापीरूपेण मार्गाणां, सेतूनां निर्माणं व्यापकतया कृतम्। वर्षे २०१५ ‘सात–निश्चय–योजना’ अन्तर्गतं प्रत्येकं गृहम् विद्युत्, प्रत्येकं गृहम् नल–जलम्, प्रत्येकं गृहम् शौचालयम् तथा पक्व–मार्ग–संयोजनम्—एतानि लक्ष्याणि सफलतया सिद्धानि।
सः अवदत् यत् सर्वकारेण हिन्दू–मुस्लिम–वर्गान्, अपर–जातीन्, पृष्ठ–अति–पृष्ठ–वर्गान्, दलित–महादलित–वर्गान् च समभावेन दृष्ट्वा विकासकार्याणि कृतानि। मुस्लिम–समुदायाय: अपि अनेका: कल्याण–योजनाः प्रवर्तिताः।
मुख्यमन्त्रिणा उक्तं यत् बिहारराज्यस्य विकासे केन्द्र–सर्वकारस्य पूर्णं सहकार्यं लभ्यते। वर्षे २०२४ केन्द्रीय–व्ययपत्रे मार्ग–उद्योग–स्वास्थ्य–पर्यटन–बाढ–नियन्त्रणार्थं विशेष–आर्थिक–सहायता घोषिताऽभवत्, तथा वर्षे २०२५ तमस्य व्ययनिर्धारणे मखाना–बोर्ड–स्थापनम्, विमानतल–विकासः एवं पश्चिम–कोसी–नहर–परियोजनायै वित्तीय–सहायता विन्यस्ता।
सः अवदत् यत् २०२५ तः २०३० पर्यन्तं अग्रिम–पञ्चवर्षेषु विकासकार्याणि अधिकवेगेन प्रवर्तयिष्यन्ते। २००५ तः अधुनापर्यन्तं चतुर्षु कार्यकालेषु (२००५–२०१०, २०१०–२०१५, २०१५–२०२०, २०२०–२०२५) शिक्षा–स्वास्थ्य–मार्ग–विद्युत्–कृषि–नारी–सशक्तीकरण–क्षेत्रेषु व्यापकानि कार्याणि कृतानि। अग्रे ‘सात–निश्चय–३’ इत्यस्य रूपरेखा सिद्धा, यस्य अन्तर्गतं द्विगुणं रोजगारम्, द्विगुणम् आयः इति लक्ष्यं निर्धारितम्। राज्यस्य प्रति–व्यक्ति–औसत–आयः द्विगुणीकरणस्य दिशि प्रयत्नाः प्रवर्तन्ते, तथा ‘मुख्यमंत्री–महिला–रोजगार–योजना’ अन्तर्गतं महिलाभ्यः दश–सहस्र–रूप्यकाणां सहायता दीयते।
वैशाली–जनपदस्य विकासे विशेषतया प्रकाशं कुर्वन् मुख्यमन्त्री अवदत् यत् २००५ त: पूर्वं जनपदस्य स्थिति: अत्यन्तं पृष्ठे आसीत्, अधुना तु प्रमुख–विकास–कार्याणि पूर्णानि। जनपदे अभियान्त्रिकी–महाविद्यालयः, पॉलिटेक्निक–संस्थाः, महिला–आई.टी.आई., सर्वेषु अनुमण्डलेषु च आई.टी.आई.–स्थापनं कृतम्। महुआ–नगरे चिकित्सालय–सहितं चिकित्सामहाविद्यालयः, जी.एन.एम. तथा पारा–मेडिकल–संस्थाश्च स्थापिताः।
सः अवदत् यत् वैशाली–जनपदे बहवः सेतवः मार्गाश्च निर्मिताः। हाजीपुर–पटना–मध्ये गङ्गायां प्राचीन–गान्धी–सेतुना सह जे.पी.–सेतुर्निर्मितः। दीदारगञ्ज–बिदुपुर–मध्ये षड्–पंक्ति–महासेतोः निर्माणं तथा हाजीपुर–मुजफ्फरपुर–मार्गस्य चतुर्पंक्ति–विस्तारिता। अपि च वैशाली–नगरे बुद्ध–सम्यक्–दर्शन–संग्रहालयः एवं स्मृति–स्तूपः निर्मितौ, ययोः उद्घाटनम् अल्पकालपूर्वमेव सम्पन्नम्।
मुख्यमन्त्री अवदत् यत् २०२४–दिसम्बर–मासे तथा २०२५–जनवरी–फरवरी–मासयोः प्रगति–यात्रा अन्तर्गतं सर्वान् जनपदान् भ्रमित्वा विकास–कार्याणां समीक्षा कृता। वैशाली–जनपदे यत्र यत्र न्यूनता दृष्टा, तत्र तां निवारयितुं सप्त नवीन–योजनाः स्वीकृताः, यासां कार्याणि प्रगतिशीलानि सन्ति। वाया–नद्याः उडाही–कार्यं तथा बरैला–सरस: विकास–कार्यम् अपि तीव्रतया प्रवर्तते।
जनसंवाद–कार्यक्रमे स्थानीय–जनप्रतिनिधिभिः मुख्यमन्त्रिण: मालयाऽलङ्कृत्य स्वागतं कृतम्। कार्यक्रमस्य समापने वैशाली–जनपदस्य जिलाधिकारी श्रीमती वर्षा–सिंह: मुख्यमन्त्रिणे प्रतीक–चिह्नं दत्त्वा सम्मानितवती।
हिन्दुस्थान समाचार / अंशु गुप्ता