राष्ट्रस्य उन्नत्यै संस्कारयुक्ता शिक्षा अतीव महत्वपूर्णा — पटेल:
संसदीय–कार्य–मन्त्रिणा ३९ बालिकाभ्यः नि:शुल्क–द्विचक्रिका–वितरणम् जोधपुरनगरम्, २४ जनवरीमासः (हि.स.)। राजकीय–उच्च–माध्यमिक–विद्यालये बोरानाडानगरे द्विचक्रिका–वितरण–समारोहः शनिवासरे संसदीयकार्य-विधि-विधिककार्य–मन्त्री श्रीजोगारामपटेलस्य मुख्यातिथ्ये
jodhpur


संसदीय–कार्य–मन्त्रिणा ३९ बालिकाभ्यः नि:शुल्क–द्विचक्रिका–वितरणम्

जोधपुरनगरम्, २४ जनवरीमासः (हि.स.)। राजकीय–उच्च–माध्यमिक–विद्यालये बोरानाडानगरे द्विचक्रिका–वितरण–समारोहः शनिवासरे संसदीयकार्य-विधि-विधिककार्य–मन्त्री श्रीजोगारामपटेलस्य मुख्यातिथ्ये आयोजित: अभवत्।

संसदीय–कार्य–मन्त्री अवदत् यत् मुख्यमन्त्री श्रीभजनलाल: शर्मा गार्गी–पुरस्कार–सहितं विविध–बालिका–योजनायाः अन्तर्गतं प्रदेशे प्रायः ३ लक्षात् अधिकं बालिकाभ्यः १२६ कोटि: ८१ लक्षरूप्यकाणां निधिं डीबीटी–मार्गे प्रदत्तवन्तः। सत्रे २०२५–२६ मध्ये ४ लक्ष ४० सहस्रं पात्र–विद्यार्थिभ्यः ट्रांसपोर्ट–वाउचर–योजनायाः अन्तर्गतं प्रायः ५३ कोटिरूप्यकाणि डीबीटी–मार्गे प्रदत्तानि।

पटेल: अवदत् यत् राष्ट्रस्य उन्नत्यै संस्कारयुक्ता शिक्षा अतीव महत्वपूर्णा अस्ति। बालकाः भारतस्य भविष्यं सन्ति। तेषां सर्वाङ्गीण–विकासात् एव विकसित–भारतस्य स्वप्नं साकारं भविष्यति। सः अवदत् यत् शिक्षा केवलं पुस्तक–ज्ञानम् एव न भवेत्, किन्तु तस्मिन् नैतिक–मूल्यानि, अनुशासनं, सामाजिक–उत्तरदायित्वञ्च सम्मिलितं भवेत्। परिवारः, समाजः विद्यालय: च बालकेभ्यः नैतिक–मूल्यानां विकासं कृत्वा उत्तमान् नागरिकान् निर्मातुं प्रयत्नं कुर्वन्ति।

प्रधानाचार्य: श्रीराजेशयादव: अवदत् यत् गतवर्षे गार्गी–पुरस्काराय अस्मिन् विद्यालये १४ बालिकाः तथा अस्मिन् वर्षे १२ बालिकाः चयनिताः। सः अवदत् यत् ट्रांसपोर्ट–वाउचर–योजनायाः अन्तर्गतं १ लक्षं ५४ सहस्रं रूप्यकाणि छात्राणां धनागारे स्थापितानि। कार्यक्रमे ३९ बालिकाभ्यः नि:शुल्क–द्विचक्रिका–वितरणं कृतम्।

हिन्दुस्थान समाचार / अंशु गुप्ता