मुख्यमन्त्री डॉ.यादवेन ‘जननायक’ कर्पूरी–ठाकुरस्य जयन्त्यां नमनं कृतम्
भोपालनगरम्, २४ जनवरीमासः (हि.स.)। बिहारराज्यस्य पूर्व–मुख्यमन्त्री कर्पूरी–ठाकुरस्य अद्य शनिवासरे जयन्ती आचर्यते। कर्पूरी–ठाकुरः २४ जनवरी १९२४ तमे वर्षे समस्तीपुर–जनपदस्य पितौंझिया–ग्रामे अजायत। सः बिहारस्य प्रथमः गैर–काङ्ग्रेस–मुख्यमन्त्री आसीत्।
मुख्यमंत्री डॉ यादव ने 'जननायक' कर्पूरी ठाकुर की जयंती पर किया नमन


भोपालनगरम्, २४ जनवरीमासः (हि.स.)। बिहारराज्यस्य पूर्व–मुख्यमन्त्री कर्पूरी–ठाकुरस्य अद्य शनिवासरे जयन्ती आचर्यते। कर्पूरी–ठाकुरः २४ जनवरी १९२४ तमे वर्षे समस्तीपुर–जनपदस्य पितौंझिया–ग्रामे अजायत। सः बिहारस्य प्रथमः गैर–काङ्ग्रेस–मुख्यमन्त्री आसीत्। निधनात् ३६ वर्षाणि अनन्तरं तस्मै देशस्य सर्वोच्चं सम्मानं ‘भारत–रत्न’ प्रदत्तम्। मध्यप्रदेशस्य मुख्यमन्त्री डॉ.मोहन–यादवः कर्पूरी–ठाकुरस्य जयन्त्यां तस्मै श्रद्धापूर्णं नमनं कृतवान्।

मुख्यमन्त्री डॉ.यादवः सामाजिक–माध्यमे एक्स इत्यत्र स्वीय–सन्देशे लिखितवान् यत् “सामाजिक–समतायाः प्रतीकाय, भारत–रत्न–सम्मानिताय कर्पूरी–ठाकुर–महोदयाय जयन्त्यां कोटिश: नमनम्। राष्ट्र–निर्माणे निर्धनानां वञ्चितानां च कल्याणार्थं भवतः त्यागः समर्पणं च अस्मान् सर्वान् समाज–सेवायाः मार्गे निरन्तरं प्रेरयिष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता