Enter your Email Address to subscribe to our newsletters

हरिद्वारम्, 24 जनवरीमासः (हि.स.)। मध्यहरिद्वारे महाराजाअग्रसेनघट्टे शनिवासरे भगवत्या गङ्गायाः प्रतिमाया अनावरणं महाआरतीकार्यक्रमश्च आयोजितः अभवत्।तस्याः प्रतिमाया अनावरणं महापौरः किरणजैसलः पूर्वमहापौरः मनोजगर्गश्च अकुर्वताम्। तौ एतत् कार्यं स्वागतं कृत्वा अवदताम् यत् भगवत्या गङ्गायाः प्रतिमास्थापनात् भक्तेषु हर्षपूर्णं वातावरणं जातम् अस्ति तथा च माता गङ्गा भक्तानां कल्याणं करोति।
घट्टसमितेः अध्यक्षः रामबाबूबंसलः महामन्त्री च डा विशालगर्गः अवदताम् यत् दीर्घकालात् भक्तानां मागणी आसीत् यत् घट्टे गङ्गायाः प्रतिमा स्थाप्येत। तौ सर्वान् जनान् प्रार्थयताम् यत् गङ्गाघट्टानां स्वच्छतां सौन्दर्यं च रक्षितुं सहभागितां कुर्वन्तु तथा च गङ्गायां अपशिष्टवस्तूनि, पॉलिथीनं, जीर्णवस्त्राणि च न क्षिपन्तु।
अस्मिन् अवसरे प्रदीपमेहता, संजयआर्यः, नीरजगुप्तः, डा हर्षवर्धनः इत्यादयः सह शताधिकाः भक्ताश्च गङ्गाआरत्यां भागं गृहीतवन्तः।
हिन्दुस्थान समाचार