Enter your Email Address to subscribe to our newsletters

हरिद्वारम्, 24 जनवरीमासः (हि.स.)।
राष्ट्रियस्वयंसेवकसंघस्य शताब्दीकार्यक्रमाणां श्रृङ्खलायां रविवासरे हरिकीपौड्यां भव्यं हिन्दूसम्मेलनं आयोजयिष्यते।
श्रीगङ्गाहिन्दूसम्मेलनसमितेः संयोजकः उज्ज्वलपण्डितः अवदत् यत् राष्ट्रियस्वयंसेवकसंघस्य शताब्दीसमारोहस्य श्रृङ्खलायां एषः भव्यः आयोजनः प्रथमवारं हरिकीपौड्यां आयोज्यते।
मातृगङ्गाहिन्दूसम्मेलनसमित्या श्रीगङ्गासभया च तत्वावधाने आयोजितस्य अस्य सम्मेलनस्य कृते व्यापकस्तरेण सिद्धताः क्रियमाणाः सन्ति।
श्रीगङ्गासभायाः अध्यक्षः नितिनगौतमः अवदत् यत् एतत् सम्मेलनं अपराह्णे द्वितीयवादने मातृगङ्गायाः पावनायां भूमौ हरिकीपौड्यां भविष्यति यत्र हिन्दुत्वजागरणस्य हिन्दुसमाजस्य एकीकरणस्य च सन्देशः प्रदीयते।
अध्यक्षः नितिनगौतमः वर्तमानकालखण्डं सनातनधर्मस्य हिन्दुसमाजस्य च कृते स्वर्णिमयुगं निरूपयन् अवदत् यत् पञ्चशतानां वर्षाणां संघर्षानन्तरं अयोध्यायां भगवतः श्रीरामस्य भव्यं मन्दिरनिर्माणं अस्य पीढ्याः महत् सौभाग्यम् अस्ति। तामेव चेतनां अग्रे नयितुं हरिद्वारे अस्य विशालसम्मेलनस्य रूपरेखा निर्मिता अस्ति।
सः दावां कृतवान् यत् अस्मिन् सम्मेलने हरिद्वारतः उत्तराखण्डप्रदेशात् अन्येभ्यः राज्येभ्यश्च बहुसंख्यायां सनातनधर्मावलम्बिनः सन्तः धर्मप्रेमिणः प्रबुद्धाश्च जनाः सहभागं करिष्यन्ति।
अस्य सम्मेलनस्य मुख्यवक्तारूपेण राष्ट्रियस्वयंसेवकसंघस्य प्रान्तप्रचारकः डा शैलेन्द्रजी उपस्थितः भविष्यति। तस्य अतिरिक्तं साधवः सन्तः तीर्थपुरोहिताः पण्डासमाजस्य प्रतिनिधयश्च हिन्दूसम्मेलने सहभागं करिष्यन्ति।
उल्लेखनीयं यत् गतकालेषु किञ्चित् समयात् गङ्गातटेषु गैरहिन्दूनां प्रवेशस्य निषेधविषयः अपि चर्चायां वर्तते। अपेक्षा क्रियते यत् एते विषयाः अपि हिन्दूसम्मेलनस्य चर्चाकेन्द्रे भविष्यन्ति।
हिन्दुस्थान समाचार