मुख्यमंत्री नीतीशस्य 'समृद्धि यात्रायाः' सप्तमदिनं वैशाल्यां 128 योजनानां करिष्यते उद्घाटनं-शिलान्यासं च
पटना, 24 जनवरीमासः (हि.स.)। मुख्यमन्त्रिणो नीतीशकुमारस्य समृद्धियात्रा सप्तमे दिने शनिवासरे वैशालीनगरं प्राप्स्यति। अद्य प्रथमचरणस्य अन्तिमः दिवसः अस्ति। मुख्यमन्त्री मध्यान्हे 12:30 वादने पटना नगरात् उदग्रविमानद्वारा वैशालीनगराय प्रस्थानं करिष्यत
मुख्यमंत्री की फाइल फोटो


पटना, 24 जनवरीमासः (हि.स.)।

मुख्यमन्त्रिणो नीतीशकुमारस्य समृद्धियात्रा सप्तमे दिने शनिवासरे वैशालीनगरं प्राप्स्यति। अद्य प्रथमचरणस्य अन्तिमः दिवसः अस्ति। मुख्यमन्त्री मध्यान्हे 12:30 वादने पटना नगरात् उदग्रविमानद्वारा वैशालीनगराय प्रस्थानं करिष्यति। अस्मिन् अवसरः सः अष्टाविंशतिः शताधिकाः (128) योजनानां उद्घाटनं शिलान्यासं च करिष्यति।

मुख्यमन्त्री सर्वप्रथमं महुआ क्षेत्रे नवनिर्मितस्य चिकित्सामहाविद्यालयस्य निरीक्षणं करिष्यति। तदनन्तरं सः जीविकाभगिनीभिः सह संवादं करिष्यति। अनन्तरं बाबा बटेश्वरनाथधामे दर्शनपूजनं अपि करिष्यति।मुख्यमन्त्री पानापुर बटेश्वरनाथ उच्चमाध्यमिकविद्यालयस्य समीपे जलजीवनहरियालीयोजना अन्तर्गतं निर्मितस्य सरसः निरीक्षणं करिष्यति।

एतत् सरः जीविका दीदीनां हस्ते समर्पितं भविष्यति। तस्मिन्नेव स्थले नवनिर्मितस्य पुस्तकालयस्य तथा सौरऊर्जया सञ्चालितस्य मोटरपम्पस्य उद्घाटनं अपि भविष्यति। प्रशासनस्य मतं यत् एषा योजना स्थानीयस्तरे रोजगारवृद्धिं पर्यावरणसंरक्षणं च सुदृढं करिष्यति।

निरीक्षणकार्यक्रमानन्तरं नीतीशकुमारः शासकीयस्तरे स्वीकृतं राजकीयपर्यटनस्थलं बाबा बटेश्वरनाथधामं गमिष्यति। अत्र सः दर्शनपूजनं कृत्वा स्थलस्य अवलोकनं करिष्यति।

दर्शनपूजनानन्तरं मुख्यमन्त्री कार्यक्रमस्थलस्य समीपे अधिकारिभिः सह जिलास्तरीयां समीक्षोपवेशनं करिष्यति। अस्यां बैठके जिलस्य विकासकार्याणां प्रगतिः समीक्ष्यते। सहस्रकोटिरूप्यकाणां विकासयोजनानां शिलान्यासः उद्घाटनं च भविष्यतीति सम्भावना अस्ति।

---------------

हिन्दुस्थान समाचार