“साहस-यात्रा” माध्यमेन स्वास्थ्यस्य राष्ट्रसेवायाः च संदेशः
बी.आर.डी.-चिकित्सा-महाविद्यालयतः एम्स-गोरखपुरपर्यन्तं निर्गता प्रेरणादायिनी द्विचक्रिकायात्रा
An inspirational cycle journey from BRD Medical College to AIIMS Gorakhpur


An inspirational cycle journey from BRD Medical College to AIIMS Gorakhpur


An inspirational cycle journey from BRD Medical College to AIIMS Gorakhpur


An inspirational cycle journey from BRD Medical College to AIIMS Gorakhpur


गोरखपुरम्, २५ जनवरीमासः (हि.स.)। “स्वस्थाः भवन्तु, देश-विकासं कुर्वन्तु” तथा “स्वास्थ्य-सेवया राष्ट्र-सेवा” इति संदेशं आत्मसात् कृत्वा नेशनल् मेडिकोज़ ऑर्गेनाइज़ेशन (NMO) गोरक्ष-प्रान्तेन आयोजितायाः “साहस-यात्रायाः” भव्यः शुभारम्भः रविवासरे बी.आर.डी. चिकित्सामहाविद्यालय, गोरखपुरस्य शैक्षणिक-भवनात् अभवत्।

कार्यक्रमस्य उद्घाटनं बी.आर.डी. चिकित्सामहाविद्यालयस्य प्राचार्यः डॉ. रामकुमार जायसवालः ध्वजप्रदर्शनेन कृत्वा सायकिल-यात्रां प्रेषितवान्। अस्मिन् अवसरॆ NMO गोरख-प्रान्तस्य सचिवः डॉ. अमित सिंहः, NMO बी.आर.डी. इकायाः अध्यक्षः डॉ. पी.एन. सिंहः, डॉ. अखिलेश्वर धर दुबे इत्यादयः, तथा एम्स् गोरखपुरस्य अध्यापकाः अपि गरिमामयतया उपस्थिताः आसन्।

उद्घाटनानन्तरं प्रायः १२५ छात्राः शिक्षकाः च अनुशासितेन सायकिल-काफिलेन सह साहस-यात्रायां सहभागी अभवन्। एषः काफिलः मोहद्दीपुरं तथा नौका-विहारं गत्वा उत्साहपूर्णे वातावरणे प्रातः १०:३० वादने एम्स् गोरखपुरं प्राप्तवान्। सहभागिनां सुरक्षा-सुविधायै काफिलेन सह द्वे बस-याने तथा एका एम्बुलेन्स् अपि नियोजिते आस्ताम्।

अस्य सम्पूर्ण-कार्यक्रमस्य आयोजन-सचिवाः डॉ. अमित रायः, नमन मिश्रः तथा अम्बरीष रायः आसन्। तेषां कुशल-नेतृत्वेन, समन्वयेन च कार्यक्रमः सुव्यवस्थितः सफलश्च अभवत्। एम्स् गोरखपुरे साहस-यात्रायाḥ समापन-समारोहः आयोजितः, यस्य मुख्य-अतिथिः डॉ. शिखा सेठ आसीत्। अन्ये विशिष्ट-अतिथयः डॉ. विवेक मिश्रा (आयोजनाध्यक्षः), डॉ. तेजस पटेलः, डॉ. अनिल कोपारकरः (उपाध्यक्षः, NMO गोरख-प्रान्तः), डॉ. शालजा मिश्रा, डॉ. आशुतोष तिवारी, डॉ. विभा सिंह, डॉ. अमरेश सिंह (संगठन-मन्त्री, NMO गोरखप्रान्तः) तथा डॉ. अमित रायः (सम्पर्क-प्रमुखः, NMO गोरखप्रान्तः) आसन्।

सर्वैः अतिथिभिः एषा साहस-यात्रा युवासु अनुशासनं, स्वास्थ्य-जागरूकतां, सामाजिक-उत्तरदायित्वं तथा राष्ट्र-निर्माण-भावनां सुदृढीकरोति इति प्रेरणादायी प्रयासः इत्युक्तम्। आयोजकानां सहभागिनां च बहुशः प्रशंसा कृता।

अस्मिन् अवसरे गोरखपुर-यातायात-पालिकायाः विशेषः आभारः व्यक्तः, यत् तेषां उत्कृष्ट-सहयोगेन, मार्ग-व्यवस्थया, सुरक्षा-प्रबन्धनेन च यात्रा पूर्णतया सुरक्षिताः सुचारु च अभवत्। तथैव सरस्वती विद्या मन्दिर विद्यालयस्य अपि हार्दिकं धन्यवादं प्रकटितं, यत् तेन प्रदत्ताभिः बस-यानेभिः आयोजनस्य सफलतायां महत्त्वपूर्णं योगदानं कृतम्। कार्यक्रमस्य समापनं उत्साहेन, अनुशासनेन, सकारात्मक-सामाजिक-संदेशेन च अभवत्।

---------------

हिन्दुस्थान समाचार