Enter your Email Address to subscribe to our newsletters

भोपालम्, २५ जनवरीमासः (हि.स.)। मुख्यमन्त्री डॉ. मोहनयादवः पद्म-पुरस्कारैः सम्मानिताभ्यः सर्वाभ्यः विभूतिभ्यः हार्दिकम् अभिनन्दनं शुभाशयांश्च अदात्। तासु मध्यप्रदेशस्य चतस्रः विभूतयः अपि समाविष्टाः सन्ति। मुख्यमन्त्री डॉ. यादवः पद्मश्री-सम्मानेन सम्मानितान् भगवानदासरैकवारः (क्रीडा), कैलाशचन्द्रपन्तः (साहित्यं तथा शिक्षा), मोहननागरः (सामाजिक-सेवा) तथा नारायणव्यासः (पुरातत्त्व) इति विभूतयः अभिनन्द्य अवदत् यत् एतेषां विभूतीनां स्वस्व-क्षेत्रेषु कृतं सर्वोत्कृष्टं कार्यं राष्ट्रीय-स्तरे प्रदेशस्य नाम गौरवान्वितम् अकरोत्। तेषां अद्वितीयेन योगदानेन भावी-पीढीनां राष्ट्रसेवायाः प्रेरणा अपि प्रदत्ता अस्ति। मुख्यमन्त्रीणाः पद्मश्री-प्राप्तानां विभूतीनां उज्ज्वल-भविष्यस्य कामना कृता।
उल्लेखनीयं यत् राष्ट्रपतिः द्रौपदी मुर्मुः रविवासरे वर्ष २०२६ कृते कुलं १३१ पद्म-पुरस्कारान् घोषितवती। अस्यां सूच्यां ५ पद्म-विभूषण-पुरस्काराः, १३ पद्म-भूषण-पुरस्काराः तथा ११३ पद्मश्री-पुरस्कार-प्राप्तारः समाविष्टाः सन्ति। पद्म-पुरस्कार-प्राप्तेषु १९ महिलाः सन्ति, अपि च अस्यां सूच्यां विदेशीय-नागरिकाः, अनिवासी-भारतीयाः च सहिताः अन्येषु वर्गेषु ६ विभूतयः अपि अन्तर्भूताः सन्ति। दिवंगत-चलचित्र-अभिनेता धर्मेन्द्रसिंह देओल सहिताः १६ विभूतयः मरणोपरान्तं पद्म-पुरस्कारैः सम्मानिताः भविष्यन्ति इति घोषणा कृता। सम्मानिताः विभूतयः राष्ट्रपतिभवने आयोजिते समारोहे पुरस्कारान् प्राप्स्यन्ति।
हिन्दुस्थान समाचार