Enter your Email Address to subscribe to our newsletters

कोलकाता, 25 जनवरीमासः (हि.स.)।
पश्चिमबङ्गालराज्यस्य मुख्यमन्त्री ममता बनर्जी रविवासरे बाङ्ग्लासाहित्यस्य आधुनिकतायाः अग्रदूतस्य महाकवेः माइकल मधुसूदन दत्तस्य जयन्त्यवसरे तस्मै श्रद्धाञ्जलिं समर्पितवती।
मुख्यमन्त्री सामाजिकमाध्यममञ्चे एक्स इति स्थले प्रकाशिते सन्देशे अलिखत् — “बाङ्ग्लासाहित्यस्य आधुनिकतायाः पथप्रदर्शकस्य महाकवेः माइकल मधुसूदन दत्तस्य जयन्त्यवसरे विनम्राः श्रद्धाञ्जलयः।”
स्वसन्देशेन ममता बनर्जी बाङ्ग्लासाहित्ये माइकल मधुसूदन दत्तस्य अतुलनीयम् योगदानं स्मृत्वा तस्मै ससम्मानं नमनं कृतवती।
---------------
हिन्दुस्थान समाचार