Enter your Email Address to subscribe to our newsletters

जोधपुरम् 25 जनवरीमासः (हि.स.)। राष्ट्रगीतस्य वन्दे मातरम् इत्यस्य एकशतपञ्चाशद्वर्षपूर्तेः उपलक्ष्ये वन्दे मातरम्१५० अभियानस्य अन्तर्गतं पर्यटनविभागेन रविवासरे जनपदस्य प्रमुखेषु पर्यटनस्थलेषु वन्दे मातरम् बूथ् तथा सेल्फी बिन्दवः स्थापिताः। एतेषां नवप्रयोगाणां माध्यमेन पर्यटकेषु राष्ट्रप्रेम्णः सांस्कृतिकचेतनायाः च प्रोत्साहनाय प्रयासः कृतः।अभियानस्य अन्तर्गतं जोधपुरनगरे प्रमुखेषु पर्यटनस्थलेषु आकर्षकाः वन्दे मातरम्१५० विषयाधारिताः बूथ् तथा सेल्फी बिन्दवः निर्मिताः, यत्र पर्यटकाः उत्साहपूर्वक सहभागितां कृत्वा राष्ट्रगीतस्य प्रति स्वसम्मानं प्रदर्शितवन्तः। तेषु स्थलेषु देशभक्तिसन्देशैः सह शोभायुक्ताः फलकाः प्रतीकचिह्नानि च प्रदर्शितानि।अस्मिन् अवसरे विश्वविख्यातस्य मेहरानगढदुर्गस्य परिसरें देशविदेशेभ्यः आगतानां पर्यटकानां महती उपस्थिति अभिलेखिता। पर्यटकाः वन्दे मातरम्१५० सेल्फी बिन्दुषु छायाचित्राणि गृहीत्वा अस्मिन् राष्ट्रभक्त्यभियाने सम्मिलितुं स्वोत्साहं प्रकटितवन्तः।पर्यटनविभागस्य उपनिदेशकः भानु प्रतापः अवदत् यत् अस्य प्रयासस्य मुख्योद्देश्यं पर्यटनक्रियाभिः सह राष्ट्रप्रेम्णः, स्वदेशीचेतनायाः, सांस्कृतिकगौरवभावनायाः च सुदृढीकरणं अस्ति, येन पर्यटकाः भारतस्य राष्ट्रियास्मितया सह अधिकं आत्मीयतया सम्बद्धाः भवेयुः।
हिन्दुस्थान समाचार